पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४

  • पञ्चतन्त्रम् *

[१ मित्र- महतां योऽपराध्येत 'दूरस्थोऽस्मीति नाश्वसेत् । दीघौ बुद्धिमतो बाहू ताभ्यां हन्ति स हिसकम् ।। ३३१ ॥ तद्युद्धं मुक्त्वा मे नान्यदस्ति श्रेयस्करम् । उक्तञ्च- न तान्हि तीर्थैस्तपसा च लोकान्स्वर्गपिणो दानशतैः सुवृत्तः । क्षणेन यान् यान्ति रणेपुधीराःप्राणान्समुज्झन्ति हि ये सुशीलाः।।३३२|| मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिरुत्तमा। तदुभावपि शूराणां गुणावेतौ सुदुर्लभौ ॥ ३३३ ।। ललाटदेशे रुधिरं स्रवत्तु शूरस्य यस्य प्रविशेञ्च वक्त्रे । तत्सोमपानेन समं भवेच्च सनामयज्ञे विधिवत्प्रदिष्टम् ॥३३४॥ तथा च- होमाविधिवत्प्रदानविधिना सद्विप्रवृन्दार्चनै- यज्ञैर्भूरिसुदक्षिणैः सुविहितैः संप्राप्यते यत्फलम् । सत्तीर्थाश्रमवासहोमनियमैश्चान्द्रायणाद्यैः कृतैः पुम्भिस्तत्फलमाहवे विनिहतैः सम्प्राप्यते तत्क्षणात् ॥३३५।। तदाकर्ण्य दमनकश्चिन्तयामास-'युद्धाय कृतनिश्चयोऽयं दृश्यते दुरात्मा, तद्यदि कदाचित्तीक्ष्णशृङ्गाभ्यां स्वामिनं प्रह- रिष्यति-तन्महाननर्थः संपत्स्यते । तदेन भूयोऽपि स्वबुद्धया प्रवोध्य तथा करोमि यथा देशान्तरगमनं करोति । आह च- 'भो मित्र ! सम्यगभिहितं भवता, (परं) किन्तु कः स्वामिभृ- त्ययो. सङ्ग्रामः ? । उक्तञ्च- त्यागश्चेत्का वार्ताऽन्यस्येति भाव ॥ ३०- ॥ निर्वृति-सुखम् । महतामिति । महतामपराध कुर्वन्-'अहं दूरे तिष्टामि, स मे किमपकरिष्यतीति-नाश्वसेत् न हृष्येत् ॥ ३३१॥ नतानिति । स्वर्गेषिण =स्वर्गार्थिन । सुवृत्तै =विधिवदाचरितै, शोभनै- राचारैश्च ॥ ३३२ ॥ एतौ-गुणौ-स्वर्ग, कीर्तिश्च ॥ ३३३ ॥ सोमपानेन समं= सोमयनान्तविहितसोमरसपानेन तुल्यं । प्रदिष्ट धर्मशास्त्रोक्तम् ।। ३३४ ॥ चा- न्द्रायणादयो-व्रतविशेपा । आहवे युद्धे । तत्क्षणात्-सद्य ॥३३५ ।।