पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१२७ सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धि काष्टाद्धष्टो विनश्यति ॥ ३४४ ।। टिट्टिभ आह-'कथमेतत् ?' | साऽब्रवीत्- १३. काष्ठभ्रष्टकच्छपकथा अस्ति कस्मिश्चिजलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनानी मित्रे हंसजातीये परमस्नेहकोटिमाश्रिते नित्यमेव सरस्तीरमासाद्य तेन सहानेकदेवर्पिमहर्षीणां कथाः कृत्वाऽस्तमयवेलायां स्वनीडसश्रयं कुरुतः। अथ गच्छता काले. ऽनावृष्टिवशात्सरः शनैः शनैः शोषमगमत् । ततस्तदुःखदुःखितौ तावूचतुः-'भो मित्र ! जम्बालशेषमेतत्सरः सञ्जातं, तत्कथं भवान्भविष्यतीति व्याकुलत्वं नो हृदि वर्तते ।' तच्छ्रुत्वा कम्बु. ग्रीव आह-'भो! साम्प्रतं नाऽस्त्यस्माकं जीवितव्यं, जलाभा- वात्, तथाप्युपायश्चिन्त्यतामिति । उक्तञ्च- त्याज्यं न धैर्य विधुरेऽपि काले धैर्यात्कदाचित्स्थितिमाप्नुयात्सः । जाते समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति तत्र्तुमेव ॥३४५॥ अपरञ्च- मित्रार्थे वान्धवार्थे च बुद्धिमान् यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥ ३४६ ।। तदानीयतां काचिद् दृढरजुर्लघु काष्ठं वा। अन्विष्यतां च न करोषि नाकापा । वर्तमानसामीप्ये भूते लट् । 'न कृतवानसीति' परे पठन्ति। हसजातीये-हसजात्युत्पन्ने, हसाविति यावत् । स्वनीडसंश्रय-स्वकुलाया- श्रयण, ( नीड='घोंसला')। जम्वालपम् पङ्कावशेषम् । 'निपद्वरस्तु जम्बाल: पड्कोऽस्त्री शादकर्दमौ' इत्यमर । भविष्यति-प्राणान् धरिष्यति । विधुरे-विपत्तिकालेऽपि । स्थिति विपत्तिविनाशम् । गतिमिति पाठान्तरम् । समुद्रे पोतभङ्गे-वहिननाशे जातेऽपि । तर्तुमेव=जले, पुनरपि वाणिज्यार्थ वा समुद्रगमनमेव । वाच्छति-इच्छति, करोति च । धनञ्चोपार्जयतीत्याशय ॥३४५॥ मित्रार्थे इति । विपत्तिषु जातासु बुद्धिमान् मित्राद्यर्थे सुदृढ यतेतेत्यर्थः