पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४१ भेद ]

  • 'अभिनवराजलक्ष्मीविराजितम् *

तद्देशत्यागः कार्यः। अथवाऽऽत्मा सामादिभिरुपायैरभिरक्ष- णीयः। उक्तञ्च- अपि पुत्रकलत्रैर्वा प्राणान् रक्षेत पण्डितः । विद्यमानैर्यतस्तैः स्यात्सर्व भूयोऽपि देहिनाम् ।। ३८८ ।। तथाच- येन केनाऽप्युपायेन शुभेनाप्यशुभेन वा। उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ।। ३८९ ।। यो मायां कुरुते मूढः प्राणत्यागे धनादिपु । तस्य प्राणा. प्रणश्यन्ति तैनष्टैनष्टमेव तत् ॥ ३९० ।। एवमभिधाय दमनकः करटकसकाशमगमत् । - करटकोऽपि तमायान्त दृष्ट्वा प्रोवाच-'भद्र ! किं कृतं तत्र भवता ? | दमनक आह-'मया तावन्नीतिवीजनिर्वापणं कृतम्, परतो दैवविहिताऽऽयत्तम् । उक्तञ्च यतः- पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्य विपश्चिता। आत्मदोपविनाशाय स्वचित्तस्तम्भनाय च ।। ३९१ ।। तथाच- उद्योगिनं पुरुषसिहमुपैति लक्ष्मी- दैवं हि दैवमिति कापुरुपा वदन्ति । तदनुप्रवेशः तेन सह सन्धिः, तत्सेवा वा । नीति =राजनीति । सामा. दिभिरुपायै सामदानादिभिरुपायै, सिहं प्रसन्नं कृत्वा। आत्मा स्वदेह । रक्ष णीय =पालनीय । तै =प्राणे । सर्व-दारधनादिकम् । भूय =पुनरपि । दीनं-विपद्तम् । समर्थ =शक्त । प्राणत्यागे-प्राणत्यागावसरे समुपस्थिते । धनादिषु-माया ममत्वं । तै प्राणै । तत् धनादि ॥ ३९० ॥ नीतिवीजनिर्वपणम् भेदनीति- वीजारोपणम् । 'निर्वापण'मिति पाठान्तरम् । परत =फलादिकम् । दैवविहिता- यत्तम्=भाग्यचेष्टिताधीनम् । अत्र लोके । दैवे पराड्मुखेऽपि-आत्मदोषविनाशाय =अलसत्व- निरुद्यमित्वादिदोषसम्भावनानिवृत्तये । स्वचित्तस्तम्भनाय स्वमनस सन्तोषाय च-कृत्यं कार्यमेव ॥३९१॥ पुरुपसिह-पुरुषश्रेष्ठम् । दैवं दैववाद । , -