पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- , उक्तञ्च- परस्य पीडनं कुर्वन्वार्थसिद्धिं च पण्डितः । गूढबुद्धिर्न लक्ष्येत वने चतुरको यथा ।। ३९९ ।। करटक आह-'कथमेतत् ? । स आह- १६. सिंह-शृगाल-कथा अस्ति कस्मिंश्चिद्वनोद्देशे वज्रदंष्ट्रो नाम सिंहः । तस्य चतु. रकक्रव्यमुखनामानौ शृगाल-वृकौ भृत्यभूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथाऽन्यदिने सिंहेन कदाचिदासन्नप्रसवा प्रसववेदनया स्वयूथाद्भष्टा उष्ट्रयुपविष्टा कस्मिंश्चिद्वनगहने समासादिता । अथ तां व्यापाद्य यावदुदरं स्फोटयति, तावजी- वल्लघु दासेरकशिशुनिष्क्रान्तः। सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपागतः। परं स्नेहाद्वालदासेरकं त्यक्त गृहमानीयेदमुवाच-'भद्र ! न तेऽस्ति मृत्योर्भयं मत्तों, नान्य- स्मादपि। ततः स्वेच्छयाऽत्र वने भ्राम्यताम् । यतस्ते शङ्कु सदृशौ कौँ, ततः शङ्ककर्णो नाम भविष्यति।' (इति) मीठी' )। विकल्प =सन्देह । हन्यादेव नत्यजेदित्यर्थ ॥ 'हन्यात्पूर्वापकारिण'- मित्यपि पाठः ॥३९८ ॥ साचिव्यं मन्त्रित्वम् । गुणत्रये लाभत्रये । जाड्यभावात् मौात् ।। परस्य-शत्रो । स्वार्थसिद्धि-स्वकार्यसिद्धिञ्च कुर्वन् । गूढबुद्धिः कपटनीतिपटु । न लक्ष्येत न ज्ञायेत, कैश्चिदपीत्यर्थ । 'चतुरक' इति शृगालनामधेयम्॥३९९॥ 'क्रव्यमुख' इति वृकस्य नामधेयम् । भृत्यभूतौ सेवको । आसन्नप्रसवा प्रसवोन्मुखी । स्वयूथात्-उष्ट्रवृन्दात् । (ऊँटो की कतारमे से)। उपविष्टा= अवस्थिता । व्यापाद्य-हत्वा । स्फोटयति-विदारयति । (फाडने लगा ) जीवन्-प्राणान्दधत् । लघुः-वाल । दासेरक =उष्ट्रः । दासेरक्या: उष्ट्रया । पिशितेन-मासेन । स्नेहात वात्सल्यात् । त्यक्त-अहतम् । शङ्कसदृगों कीलकाकारौ । शङ्कुकर्णो नाम-नाम्ना शङकर्ण इति प्रसिद्धो भविष्यसि । नामेति प्रसिद्ध्यर्थकमव्ययम् । >