पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६'

  • पञ्चतन्त्रम् *

[१ मित्र- • शङ्कुकर्ण आह-भोः ! शीघ्र निवेद्यतां येन ते वचनं शीघ्र निर्विकल्पं करोमि । अपरं स्वामिनो हिते कृते मया सुकृतशतं कृतं भविष्यति । अथ चतुरक आह-भो भद्र आत्मशरीरं द्विगु- णलाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति, स्वामिनः पुनः प्राणयात्रा भवति। तदाकर्ण्य शङ्कुकर्णः प्राह-भद्र ! यद्येवं तन्मदीयमेव प्रयोजनमेतत्। उच्यतां स्वामी,-'एतदेवं क्रियता'- मिति । परमत्र धर्मः प्रतिभूः करणीयः।' -इति निश्चित्य ते सर्वे सिंहसकाशमाजग्मुः। ततश्चतुरक आह-'देव ! न किञ्चित्सत्त्वं प्राप्तम्। भगवानादित्योऽप्यस्तं गतः। तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति, ततः शङ्कुकर्णोऽयं द्विगुणवृद्धया स्वशरीरं प्रयच्छति धर्मप्रतिभुवा ।' सिंह आह-भोः! यद्येवं तत्सुन्दरतरं, व्यवहारस्याऽस्य धर्मः प्रतिभूः क्रियताम्' इति । अथ सिंहवचनानन्तरं वृकशृगालाभ्यां विदारितोभयकुक्षिः शङ्कुकर्णः पञ्चत्वमुपागतः। अथ वज्रदंष्ट्रश्चतुरकमाह-भोश्चतु- रक ! यावदह नदीं गत्वा स्नान, देवार्चनविधि कृत्वा आगच्छामि तावत्त्वयाऽत्राऽप्रमत्तेन भाव्यम्'। इत्युक्त्वा नद्यां गतः। अथ तस्मिन् गते चतुरकश्चिन्तयामास-कथं 'ममैकाकिनो भोज्योऽयमुण्ट्रो भविष्यति' ? । इति विचिन्त्य क्रव्यमुखमाह-भोः क्रव्यमुख ! क्षुधालुभवान् , तद्यावदसौ स्वामी नागच्छति, तावत्त्व रस्योष्ट्रस्य मांसं भक्षय, अहं त्वां स्वामिने निर्दोष प्रतिपादयिष्यामि। स्वाम्यर्थे-राजप्रियचिकीर्पया । निर्विकल्पं निःसंशयम् । सुकृतशतं-पुण्य- शतम्। द्विगुणलाभेन द्विगुणलाभार्थ,-('दूने लाभ व व्याज पर)।प्रयच्छ-देहि । मदीय प्रयोजन-द्विगुणशरीरलाभरूपम् । उच्यता कथ्यताम् । प्रतिभूः मध्यस्थ.। 'साक्षी' । ('जामिनदार' 'गवाही' ) । धर्मप्रतिभुवा-धर्म मध्यस्थीकृत्य । व्यव- हारस्य ऋणग्रहणरूपव्यवहारस्य। अप्रमत्तेन-रक्षाया सावधानेन । नद्या- नदी प्रति। स्नानाद्यर्थ मिति शेष । क्षुधालु =बुभुक्षितः । स्वामिने-सिंहाय ।