पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

उक्तश्व- वाच्यं श्रद्धासमेतस्य पृच्छतश्च विशेपतः। प्रोक्तं श्रद्धाविहीनस्य अरण्यरुदितोपमम् ॥ ४२४ ॥ तकि बहुना तावत्,-इदानीमनुभव निजस्य धाय॑स्य फल'-मित्युक्त्वा यत्कुलायस्थितया तयाऽभिहित स तावत्तां शमीमारुह्य तस्यास्तं कुलाय शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि-'उपदेशो न दातव्यः,-' इति । । तन्मूर्ख ! शिक्षापितोऽपि न शिक्षितस्त्वम् । अथवा न ते दोषोऽस्ति, यतः साधोः शिक्षा गुणाय संपद्यते, नाऽसाधोः। उक्तञ्च- कि कैरोत्येव पाण्डित्यमस्थाने विनियोजितम् । अन्धकारप्रतिच्छन्ने घटे दीप इवाऽऽहितः ॥ ४२५ ।। तद्यर्थपाण्डित्यमाश्रित्य मम वचनमशृण्वन्नाऽऽत्मनः शान्ति मपि वेत्सि । तन्ननमपजातस्त्वम् । उक्तञ्च- जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च। अपजातश्च लोकेऽस्मिन्मन्तव्यः शास्त्रवेदिभिः॥ ४२६॥ मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥४२७॥ निर्लज्जत्वम् । विशेषत =अवश्यमेव । अरण्यरुदितोपमम् वने रोदनमिव निरर्थ- कम् ॥ ४२४ ॥ कुलाय' नीडम् । अभिहित -प्रार्थित । शिक्षापित -उपदि- टोऽपि । त्वं दमनक । पाण्डित्यम-उपदेशादिकौशलम् । पिधानसहिते घटे स्थापितो दीपो यथा न गृहान्धकारनाशकस्तथा मूर्खेऽपात्रे योजित उपदेशो व्यर्थ एवेत्यर्थ ॥ ४२५॥ मम-करटकस्य । आत्मन शान्तिमपि न वेत्सि= वृयैवात्मान क्लेशयसि। विलयं गच्छन्तीमात्मन शान्ति न गणयसि ? अतोऽप- जात =अधमाधमोऽसि । चतुर्विधान्पुत्रानाह-जात इति । तस्मात्-पितु । अप- 1. 'शिक्षा ग्राहितोऽपि'। 'किं करिष्यति पाडित्यमपात्रे प्रतिपादितम् । सपिधान- घटान्तस्थ प्रदीप इव वेश्मनि । इति पाठा०।