पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- .. ऽर्धदग्धशरीरः स्फुटितेक्षणः करुणं परिदेवयन्पाप द्धिपिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टः-'भोः किमिदम् ?'। इत्युक्ते स 'पापबुद्धिविचेष्टितं सर्वमिद'मिति निवेदयित्वोपरतः। अथ ते राजपुरुपाः पापवुद्धि शमीशाखायां प्रतिलम्ब्य धर्म- बुद्धिं प्रशस्येदमूचुः-'अहो ! साध्विमुच्यते-- उपायं चिन्तयेत्प्राज्ञस्तथाऽपायं च चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलेन हता वकाः' ।। ४३९ ॥ धर्मबुद्धिः प्राह-'कथमेतत् ? । ते प्रोचुः- २० मूर्खवकनकुलकथा अस्ति करिमश्चिद्धनोद्देशे वहुवकसनाथो वटपादपः । तस्य कोटरे कृष्णसर्पः प्रतिवसति स्म। स च वकवालकानजातपक्षा नपि सदैव भक्षयन्कालं नयति स्म । अथैको चकस्तेन भक्षिता. न्यपत्यानि दृष्ट्वा शिशुवैराग्यात्सरस्तीरमासाद्य वाष्पपूरपूरित नयनोऽधोमुखस्तिष्ठति । तश्च ताक्चेष्टितमवलोक्य कुलीरका प्रोवाच-माम ! किमेवं रुद्यते भवताऽद्य ?' । स आह-'भद्र कि करोमि ? । मम मन्दभाग्यस्य चालकाः कोटरनिवासिना सर्पण भक्षिताः। तदुःखदुःखितोऽहं रोदिमि । तत्कथय मे-यद्यस्ति कश्चिदुपायस्तद्विनाशाय ? ।' तदाकर्ण्य कुलीरकश्चिन्तयामास-अयं तावदस्मजातिसहज वैरी, अतस्तत्तथा सत्यानृतमुपदेशं प्रयच्छामि, यथान्येऽपि विस्फारितनयना । निग्रहंदण्डम् । बहिभोज्यव्य =आशुविदाहितृणलाक्षादि- द्रव्ये । स्फुटितेक्षण-विनष्टनेत्र । परिदेवयन् विलपन् । उपरत -मृत.। प्रति- लम्व्य-तदालम्बनपूर्वकं घातयित्वा । प्रशस्य पारितोषिकादिदानेन सत्कृत्य । अपायम्-विनाश, हानिन ॥ ४४९ ॥ तेन सर्पण । शिशुवैराग्यात्-पुत्रमरणगोकान् । याप्पपरपूरितनयन अश्रुजालाविललोचन । कुलीरक =कर्कटक । ( माम् मम्मा । भद्र भैया ) १ 'तथोपदेश प्रयच्छामि सत्यानृत' । तथाविध मत्यानृत' पा० ।