पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८

  • पञ्चतन्त्रम् *

[१ मित्र- नहपाशेन बद्धं भवद्विरहनाम्नैव तथाऽऽकुलं सञ्जातं, यथा धृति क्वापि न धत्ते, यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत । तद्वचः श्रुत्वा ते करुणाचित्तास्तेन सममेव स्वदेश प्रति प्रस्थिताः। अथाऽध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये व्रजतां ध्वाहाः कथयितुमारब्धाः-रे रे किराताः । धावत धावत ! सपादलक्ष- धनिनो यान्ति, एतानिहत्य धनं नयत' !!। तत. किराते;- वचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुडप्रहारैर्जर्जरीकृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभिहितम्-'भोः पान्थाः! पुरा कदापि ध्वाल- वचनमनृतं नासीत् , ततो भवता सन्निधौ क्वापि धनं विद्यते तदर्पयत, अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्ग प्रेक्ष्य धनं नेष्यामः-'इति । तदा तेषामीदृशं वचनमाकर्ण्य चौरविप्रेण मनसि चिन्ति- तम्-'यदैषां विप्राणां वधं विधायाऽङ्गं विलोक्य रत्नानि नेष्यन्ति, तदा मामपि वधिष्यन्ति । ततोऽहं पूर्वमेवात्मानमरत्नं समप्यतान रक्षामि । उक्तञ्च- मृत्योविभेपि किं वाल ! न स भीतं विमुञ्चति । अद्य वाऽब्दशतान्ते वा मृत्युबै प्राणिनां ध्रुवः ।। ४५२ ॥ तथा च- गवार्थ ब्राह्मणार्थे च प्राणत्यागं करोति यः । सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम ।। ।। ४५३ ॥ -इति निश्चित्याऽभिहितञ्च-भोः किराताः! यद्येव ततो मां पूर्व निहत्य विलोकयत'-इति। ततस्तैस्तथाऽनुष्टिते तं धन- - 'चढित मिति पाठान्तरम् । ('हमारे हाथ कुछ भी न चटा')। धृति-वर्यम् । पल्लीपुरमध्ये किरातपुरमध्ये । ध्वाझा =काका । ( सपादलक्षधनिन. सवालाख के धनी)। मोचयित्वा-पृथकृत्य ('नलासी लेकर')। अन्त=मिया। अरनं-