पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः] १अ भिनवराजलक्ष्मीविराजितम् * १७५ मुक्ति प्राप्नुमः । अथ चेद्भयविक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ, ततो मृत्युमवाप्स्यथ । उक्तञ्च- तनवोऽप्यायता नित्य तन्तवो बहुलाः समाः । बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥८॥ तथाऽनुष्ठिते लुब्धको जालमादायाऽऽकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोऽपि पर्यधावत् । तत ऊर्धाननः श्लोकमेनमपठत्- 'जालमादाय गच्छन्ति संहताः पक्षिणोऽप्यमी । यावच्च विवदिष्यन्ति पंतिष्यन्ति न संशय'॥९॥ लघुपतनकोऽपि प्राणयात्राक्रियां त्यक्त्वा 'किमत्र भवि- प्यतीति कुतूहलात्तत्पृष्ठतोऽनुसरति । अथ दृष्टरगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकमपठत् । उक्तञ्च- नहि भवति यन्न भाव्यं, भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति, यस्य हि भवितव्यता नास्ति ॥१०॥ तथा च- पराङ्मुखे विधौ चेत्स्यात्कथंचिद्रविणोदयः । तत्सोऽन्यदपि सङ्गृह्य याति शङ्खनिधिर्यथा ॥ ११ ॥ तदास्तां तावद्विहङ्गामिषलाभो यावत्कुटुम्बवर्तनोपायभूतं अवज्ञया, अनायासेन च । अस्य लुब्धकस्य । 'हेलावज्ञाविलासयो रिति कोश । यथा-तनव =सूक्ष्मा । आयता =दीर्घा । तन्तव =सूत्राणि । वहुला बहव । समा. समाना ।बहुत्वात् अनेकत्वात् मिलितत्वाच्च। यथा वहून् आयासान्घष- णादिभारादिखेदान् । सहन्ति-सहन्त। तथा लोकेऽपि संहति कार्यसाधिकेत्यर्थ ॥८॥ तथाऽनुष्ठिते। हेलयोट्टीनेषु पक्षिषु । नहीतियत्कार्य न भाव्यं, तन्न भवत्येव,यच खलु भाव्यं भावि, तद्विनापि यत्नेन भवत्येव । यस्य पुंस ,धनादेर्वा भवितव्यता= भाग्य, भवनावसरो वा ॥ १० ॥ विधौ दैवे । पराड्मुखे अननुकूले। द्रविणो- दय =धनलाभ । तत् तदा । स =द्रविणोदय । अन्यदपि स्वनिकटस्थमपि धनम् । शङ्खनिधिरिति । केनचिद्वैश्येन कस्यचन द्विजस्य शिवार्पित शङ्ख- १ वशमेष्यन्ति मे तदेति पाठा० ।