पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति.]

  • अभिनवराजलक्ष्मोविराजितम् *

१७७ अथ चित्रग्रीवो बिलमासाद्य तारस्वरेण प्रोवाच-'भो! भो ! मित्र हिरण्यक ! सत्वरमागच्छ, महती मे व्यसनावस्था वर्तते। तच्छ्रुत्वा हिरण्यकोऽपि बिलदुर्गान्तर्गतः सन्प्रोवाच-भोः १ को भवान् ?, किमर्थमायातः?, किं कारणम् ?, कीमुक्त व्यसना- वस्थानम् ? तत्कथ्यताम्'-इति । तच्छ्रुत्वा चित्रग्रीव आह-भोः । चित्रग्रीवो नाम कपोत- राजोऽह ते सुहृत् , तत्सत्वरमागच्छ, गुरुतरं प्रयोजनमस्ति । तदाकर्ण्य पुलकिततनुः प्रहृष्टात्मा स्थिरमनास्त्वरमाणो निष्क्रान्त । अथवा साध्विदमुच्यते- सुहृदः स्नेहसंपन्ना लोचनानन्ददायिनः । गृहे गृहवता नित्यमागच्छन्ति 'महात्मनाम् ।। १७ ॥ आदित्यस्योदयस्तात ! ताम्बूल भारती कथा । इष्टा भार्या सुमित्रञ्च अपूर्वाणि दिने दिने ॥ १८ ॥ सुहृदो भवने यस्य समागच्छन्ति नित्यश. । चित्ते च तस्य सौख्यस्य न किञ्चित्प्रतिमं सुखम् ।। १९ ॥ अथ चित्रग्रीवं सपरिवार पाशबद्धसालोक्य हिरण्यकः सवि- षादमिदमाह-भोः ! किमेतत् ?' । स आह-भोः ! जानन्नपि किं पृच्छसि ? । उक्तञ्च यतः- यस्माच येन च यदा च यथा च यच्च यावच्च यत्र च शुभाऽशुभमात्मकर्म । . तारस्वरेण उच्चै स्वरेण । व्यसनावस्था विपत्तिदगा। सत्वरं-शीघ्रम् । गुरुतरम्-अतिमहत् । पुलकिततनु =हर्षरोमाञ्चितदेह । स्थिरमना =नि शङ्क- चित्त । महात्मना भाग्यशालिनाम् । गृहवता=गृहिणाम् ॥ १७ ॥ हे तान्हे वत्स !, भारती कथा महाभारतस्येयं कथा। इष्टा=प्रिया । अपूर्वाणि नवीन- वद्भासन्ते । प्रतिम-तुल्यम् ॥ १९ ॥ यत्र यथायथं शुभाशुभं शुभं दुष्टं वा,