पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

१८३ हिरण्यक आह-भोः! त्वया सह मम कः समागमः श्रूयतां नीति- सर्वस्वम् - सकृदुष्टञ्च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्ममश्वतरी यथा ॥ ३५ ॥ अथवा-गुणवानह, न मे कश्चिद्वैरनिर्यातनं करिष्यति'- एतदपि न सम्भाव्यम् । उक्तञ्च- सिहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिने- मीमांसाकृतमुन्ममाथ सहसा हस्तो मुनि जैमिनिम्। छन्दोज्ञाननिधि जघान मकरो वेलातटे पिङ्गल- मज्ञानावृतचेतसामतिरुपां कोऽर्थस्तिरश्चां गुणैः । ।। ३६ ।। वायस आह-अम्त्येतत् । तथापि शृयताम्- उपकाराच्च लोकाना, निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात्सताम् ।। ३७ ।। मृद्धट इव सुखभेद्यो दु.सन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघट इव दुर्भेदः सुकरसन्धिश्च ॥ ३८ ॥ इक्षोरणात्क्रमश. पर्वणि पर्वणि यथा रसविशेप । तद्वत्सज्जनमैत्री विपरीतानान्तु विपरीता ।। ३९ ।। सकृदुष्टम् एकवारमपि विकृतम् ॥ ३५ ॥ गुणवान् साधु , विद्वाश्च । वैरनिर्यातनं वैरशोधनम् । ( वदला )। सिंह इति । प्रियान् प्राणानहरत्-त जघान । उन्ममाथ-जघान । वेला- तटे-समुद्रवेलाकूले । (वेला-जलवृद्धिमर्यादा ) । अतिरुषाम् क्रूराणाम् । तिरश्चा-पश्चादीनाम् । गुणै =पाण्डित्यादिभि । को गुण =क स्नेहः ।। न कोपीत्यर्थ ॥ ३६॥ लोकाना=साधारणजनानाम्। निमित्तात्-सहवासादिना । सता-दर्शनमात्रा- देवेति सम्बन्ध ॥ ३७॥ कनकघट =स्वर्णकलश । तद्वत्-प्रत्यह वर्धमानरसा सता मैत्री । खलानान्तु-प्रत्यह विरसेति भाव ॥ ३९ ॥ सकृदुष्टमपीष्ट य' इति पाठा०। २'वैरयातना'पा०। ३'द्रवत्स्वासर्वलोहाना'मिति पाठान्तरम्।