पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४

  • पञ्चतन्त्रम् *

[ २ मित्र- तथाच- आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥४०॥ तत्सर्वथा साधुरेवाहम् । अपरं त्वां शपथादिभिर्निर्भयं करोमि। हिरण्यक आह-न मेऽस्ति ते शपथैः प्रत्ययः। उक्तञ्च- शपथैः सन्धितस्यापि न विश्वासं व्रजेद्रिपोः । श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ॥ ४१॥ न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासात्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥ ४२ ॥ अन्यच्च- बृहस्पतेरपि प्राज्ञस्तस्मान्नैवाऽत्र विश्वसेत् । य इच्छेदात्मनो वृद्धिमायुष्यञ्च सुखानि च ॥ ४३ ॥ तथाच- सुसूक्ष्मेणापि रन्ध्रेण प्रविशत्यन्तरं रिपुः । नाशयेच्च शनैः पश्चात्प्लवं सलिलपूरवत् ।। ४४ ॥ न विश्वसेदविश्वस्तं विश्वस्तं नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ।। ४५ ।। न वध्यते ह्यविश्वस्तो दुर्वलोऽपि मदोत्कटैः । विश्वस्ताश्चाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ ४६ ।। आरम्भेति । दिनस्य पूर्वभागे यथा वृक्षादिच्छाया-आरम्भे दीर्घा भवति, पश्चात्क्रमशो हीयते । तथा खलाना मैत्री आदी महती, पश्चात्क्षीणा च भवति । एवमपराह्नकाले बृक्षादिच्छाया पूर्वं लघ्वी भवति, क्रमशश्च वर्धते, एवं सज्जनमैत्री क्रमशो वर्धते इत्यर्थः ॥ प्रत्ययः विश्वास । वृत्र मृत्रासुरः । सूदितः हत. ॥४१ ।। सिध्यति वशमेति। त्रिदशेन्द्रेण-इन्द्रेण । विश्वास्य त्रिदशेन्द्रणेति पाठान्तरम् । दिते =दैत्यमातुः । विदारित. खण्डित ॥ ४२ ॥ तस्मात्= विश्वासस्यानर्थहेतुत्वात् ॥४३॥ प्लव-भग्नं पोतं । सलिलपूर जलवेग ॥४४॥ १'तत्साधुरहम्' पा० । २ 'करिष्यामि' पा० । ३ 'त्वदीयशपथैः । ४ 'प्रविश्याभ्यन्तरम्'।