पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[ २ मित्र- VIVU एतद्विरक्तेः कारणम् । तेनाहं विदेशं चलित इति-वाष्पमोक्षं करोमि।' हिरण्यक आह-'अथ भवान् क्व प्रस्थितः' ?। स आह- 'अस्ति दक्षिणापथे वनगहनमध्ये महासरः। तत्र त्वत्तोऽधिकः परमसुहृत्कूर्मो मन्थरको नाम । स च मे लघुमत्स्यमांसखण्डानि दास्यति । तद्भक्षणात्तेन सह सुभाषितगोष्ठीसुखमनुभवन्सुखेन कालं नेष्यामि। नाहमत्र विहङ्गानां पाशवन्धनेन क्षयं ट्रेष्टुमि- च्छामि । उक्तञ्च- अतावृष्टिहते देशे शस्ये च प्रलयङ्गते । धंन्यास्तात ! न पश्यन्ति देशभङ्ग कुलक्षयम्।। ५७ ।। कोऽतिभारः समर्थानां ?, किं दूरं व्यवसायिनाम् ? । को विदेशः सविद्यानां ?, कः परः प्रियवादिनाम् ? ॥५८॥ विद्वत्त्वञ्च नृपत्वञ्च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ।। ५९ ॥ हिरण्यक आह-'यद्येवं तदहमपि त्वया सह गमिष्यामि, ममापि महदुः

खं वर्तते'।

वायस आह-भोः! तव किं दुःखम् ? तत्कथय ।' हिरण्यक आह-भोः ! बहु वक्तव्यमस्त्यत्र विपये, तत्तत्रैव गत्वा सर्व सविस्तरं कथयिष्यामि ।' वायस आह-'अहं ताव- दाकाशगतिः, तत्कथं भवतो मया सह गमनम् ?'। स आह- 'यदि मे प्राणान्रक्षसि तदा स्वपृष्ठमारोप्य मां तत्र प्रापय, नान्यथा मम गतिरस्ति ।' तच्छ्रुत्वा सानन्दं वायस आह- 'यद्येवं तद्धन्योऽहं, यद्भवतापि सह तत्र कालं नयामि । अहं बाष्पमोक्षम् अश्रुमोचनम् । वनगहनमध्ये दुर्गमवनमध्ये । कूर्मः कच्छप । तेन= कच्छपेन । क्षयं विनाशम् । शस्ये धान्ये। प्रलयं-विनाशम् । देशभङ्ग-प्रजा- 'शक्नोमि'। २ 'धन्यास्तात न पश्यन्ति देशमन कुलक्षयम् । परहस्तगता भार्या मित्र विपमस्थितम्'। पा०