पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२ मिन- दुरात्मनो-यन्मार्जारमर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन ।' बृहत्स्फिगाह-'अथ ज्ञायते तस्य बिलं कस्मिंश्चित्प्रदेशे ?। ताम्रचूड आह-'भगवन् ! न वेद्मि सम्यक्'। स आह-'नूनं निधा- नस्योपरि तस्य बिलम् । निधानोष्मणा निश्चितं प्रकूदतेऽसौ। 'ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् । किं पुनस्तस्य सम्भोगस्त्यागकर्मसमन्वितः' ।। ७१ ॥ तथाच- 'नाकस्माच्छौण्डिली मातर्विक्रीणाति तिलैस्तिलान् । लुञ्चितानितरैर्येन हेतुरत्र भविष्यति ॥७२॥ ताम्रचूड आह-कथमेतत् ? । स आह- २. शाण्डिली-तिलकल्कविक्रयकथा । एकदाऽहं कस्मिश्चित्स्थाने प्रावृट्काले व्रतग्रहणनिमित्त कश्चिद्राह्मणं वासार्थ प्रार्थितवान् । ततश्च तद्वचनात्तेनापि शुश्रू- षितः सुखेन देवार्चनपरस्तिष्ठामि । अथान्यस्मिन्नहनि प्रत्यूपे प्रवुद्धोऽहं ब्राह्मणब्राह्मणीसंवादे दत्तावधानः शृणोमि । तदभावात् मृत्यादिदानाय भिक्षाशेषस्याऽभावात्। अस्य भूपकस्य। मर्कट:- वानर.। उत्पतनेन-उत्प्लवनेन, ( कूदने मे )। अथेति-प्रश्ने। निधानस्य: भूमिस्थधनस्य ('गड़ा हुआ खजाना' ) निधानोष्मणा=निधानवलेन ('धन की गमीं से' ) । हे मात ! शाण्डिली-शाण्डिल्यगोत्रा काचन ब्राह्मणी। अक- स्मात् सहसा । निष्कारणम् । व्यर्थमेव। लुञ्चितान् कुहितास्तिलान् । अन्य = अखण्डितैः । न विक्रीणाति, किन्तु-अत्र कश्चन हेतुर्भविष्यतीत्यर्थ । 'नूनं हेतुस्त्रेति पाठो युक्ततरः । शण्डिलस्य गोत्रापलं स्त्री गाण्डिली ॥ ७२ ॥ प्राट्काले वर्षत्तौं । व्रतग्रहणनिमित्तं वर्षासुमासचतुष्टयमेकत्रावस्थामाय । ('चौमासा करनेको')। यतीना वर्षौ चतुर्पु मासेपु एकत्रावस्थानं हि व्रतम् । अनेन स्वोत्पतनेन' पा० । २'शाण्डिलीमातेति पा० ।