पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सम्प्राप्ति.]

  • अभिनवराजलक्ष्मीविराजितम् **

१९७ ब्राह्मण्याह--'कथमेतत् । स आह-- ३. पुलिन्द-शूकर-सर्प-शृगालकथा । अस्ति कस्मिंश्चिद्वनोद्देशे कश्चित्पुलिन्दः । स च पापर्द्धि कर्तु बनं प्रति प्रस्थितः। अथ तेन प्रसर्पता महान् अञ्जनपर्वतशिखराकारः क्रोडः जमासादितः। तं दृष्ट्वा कर्णान्ताकृष्टबाण इमं श्लोकमपठत्- मे धनुर्नाऽपि च बाणयोजनं दृष्ट्वाऽपि शङ्कां समुपैति शूकरः । था च पश्याम्यहमस्य निश्चयं यमेन नूनं प्रहितो ममान्तिकम् ।। अथासौ तेन निशितसायकेन समाहतः। अथ शूकरेणाऽपि कोपाविष्टचेतसा बालेन्दुद्युतिना दंष्ट्राग्रेण गटितोदरः पुलिन्दो गतासुर्भूतले न्यपतत् । अथ लुब्धकं व्यापाद्य करोऽपि शरप्रहारवेदनया पञ्चत्वं गतः । एतस्मिन्नन्तरे कश्चिदासन्नमृत्युः शृगाल इतस्ततो निराहारतथा पीडितः ररिभ्रमंस्तं प्रदेशमाजगाम । यावद्वराहपुलिन्दौ द्वावपि पश्यति तावत्प्रहृष्टो व्यचिन्तयत्-'भोः ! सानुकूलो मे विधिः, तेनैवैत- इचिन्तितं भोजनमुपस्थितम् । अथवा साध्विदमुच्यते-- अकृतेऽप्युद्यमे पुंसामन्यजन्मकृतं फलम् । शुभाऽशुभं समभ्येति विधिना संनियोजितम् ॥ ८२ ।। पुलिन्दः-शबर । पापर्द्धि-मृगयाम्। 'पापर्द्धिZगयाऽऽखेटो मृगव्याच्छोदने अपीति हैम । ('शिकार')। प्रसर्पता गच्छता । अञ्जनपर्वतशिखराकार = सौवीराञ्जनपर्वतशिखरतुल्यकृष्णवर्ण । क्रोड शूकर । फर्णान्तमाकृष्टबाण = कर्णान्ताकृष्टशर । निशितेन तीक्ष्णेन । सायकेन बाणेन । समाहत =ताडित । बालेन्दुद्युतिना खण्डचन्द्रकान्तिना । निशिततरेण । दष्ट्राग्रेण-दन्ताग्रेण । पुलिन्द =रावर । गतासु-मृत । लुब्धक-शवरं। व्यापाद्य-हत्वा । पञ्चत्वं मृत्युम् । निराहारतया भोजनाऽलाभेन । तेनैव अनुकूलेन भाग्येनैव । अचि-