पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

१९९ कश्चित्सारमेयो सूत्रोत्सर्ग चकार । तं दृष्ट्वा सा चिन्तितवती- 'अहो ! नैपुण्य पश्य पराङ्मुखीभूतस्य विधेः-यदेतेऽपि तिला अभोज्याः कृताः । तदहमेतान्समादाय कस्यचिगृहं गत्वा लुञ्चितैरलुञ्चितानानयामि । सर्वोऽपि जनोऽनेन विधिना प्रदास्यति'-इति । अथ तान् शूर्पे निधाय गृहामृहं प्रविशन्तीदमाह-'अहो गृह्णातु कश्चिदलुञ्चितैलुंञ्चितांस्तिलान्' । अथ यस्मिन् गृहेऽहं भिक्षार्थ प्रविष्टस्तत्र गृहे सापि तिला- नादाय प्रविष्टा विक्रयं कर्तुम् । आह च-'गृह्णातु कश्चिदलु- श्चितैलुंञ्चितांस्तिलान्' । अथ तगृहगृहिणी प्रहृष्टा यावदलुञ्चितै- टुंञ्चितान्गृह्णाति, तावदस्याः पुत्रेण कामन्दकीयशास्त्र दृष्ट्वा व्याहृतम्-'मातः ! अग्राह्याः खल्बिमे तिलाः। नास्या अलु- ञ्चितैलुंञ्चिता ग्राह्याः। कारणं किञ्चिद्भविष्यति-येनेपाऽलुञ्चितै- लुंञ्चितान्प्रयच्छति ।' तच्छुत्वा तया परित्यक्तास्ते तिलाः । अतोऽहं ब्रवीमि-नाकस्माच्छाण्डिली मातः!-'। इति । *। एतदुक्त्वा स भूयोऽपि प्राह-'अथ ज्ञायते तस्य क्रमण. मार्गः' ? । ताम्रचूड आह-भगवन् ! ज्ञायते, यत एकाकी न समागच्छति, किन्त्वसंख्ययूथपरिवृतः पश्यतो मे परिभ्रमन्नि- तस्ततः सर्वजनेन सहाऽऽगच्छति, याति च।' अभ्यागत आह-'अस्ति किंचित्खनित्रकम् । स आह- 'बाढम् , अस्ति । एषा सर्वलोहमयी सुहस्तिका।' (गृह्यताम् )। अभ्यागत आह-तर्हि, प्रत्यूषे त्वया मया सह स्थातव्यम् , कण्डयित्वा,-संशोध्य, चूर्णयित्वा (छाट पछोड कर)। सारमेय =कुकुर । विधे = दैवस्य । अलुञ्चितान् अखण्डितान् । विधिना=मार्गेण। गृहिणी-गृहस्वामिनी । 'तद्गृहिणी'त्यपि पाठ । अस्याः गृहिण्या । कामन्दकीयशास्त्रं अर्थनीति- शास्त्रम् । स =अतिथि -बृहत्स्फिक् । अस्य मूषकस्य । क्रमणमार्ग =यातायात- १'नाकस्माच्छाण्डिलोमाता' इत्यपि पाठः। तत्र शाण्डिलीमातेति तस्या नामधेयम् । २ 'प्रबोद्धव्यम्।