पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति-]

  • अभिनवराजलक्ष्मीविराजितम् *

२०१ गर्हयन्तो हतशेषा रुधिरप्लावितवसुन्धरास्तमेव दुर्ग प्रविष्टाः । अथवा साध्विमुच्यते-- छित्त्वा पाशमपास्य कूटरचना भतवा बलाद्वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः कूपान्तः पतित.,करोतु विधुरे किवा विधौ पौरुषम् ? ॥८८॥ अथाहमेकोऽन्यत्र गतः। शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः। अत्रान्तरे स दुष्टपरिव्राजको रुधिरबिन्दुचर्चितां भूमिमवलोक्य तेनैव मार्गेण दुर्गमुपगतः । ततश्च सुहस्तिकया खनितुमारब्धः । अथ तेन खनता प्राप्तं तन्निधानं यस्योपरि सदैवाऽहं कृतवसति- र्यस्योष्मणा महादुर्गमपि गच्छामि। ततो हृष्टमनास्ताम्रचूड- मिदमूचेऽभ्यागत:-'भो भगवन् ! इदानीं स्वपिहि निःशङ्कः । अस्योष्मणा मूषकस्ते जागरणं संपादयति ।' एवमुक्त्वा तन्निधानमादाय मठाभिमुखं प्रस्थितौ द्वावपि । अहमपि यावन्निधानरहितं स्थानमागच्छामि, तावद्रमणीयमु- द्वेगकारक तत्स्थानं वीक्षितुमपि न शक्नोमि । अचिन्तयं च 'किं करोमि ?, व गच्छामि ?, कथं मे स्यान्मनसः प्रशान्तिः । एवं चिन्तयतो मे महाकप्टेन स दिवसो व्यतिक्रान्तः । अथा- स्तमितेऽके सोद्धगो निरुत्साहस्तस्मिन्मठे सपरिवारः प्रविष्टः। ऽतिरिक्ताऽयोग्यमार्गगामिनम्-दुष्टञ्च । रुधिरेण प्लाविता वसुन्धरा यैस्ते तथाभूताः । छित्त्वेति । कूटरचनाम् उन्माथाख्यकूटयन्त्रमायारचनाम् । अपास्य दूरी- कृत्य । वागुरा-मृगवन्धनसाधनभेद । पर्यन्ताग्निशिखाकलापजटिलात् समन्ततो दावाग्निज्वालावलयितात् , वनाडूरं निर्गत्य, व्यधिवाणविपयादपि वेगादुत्लुत्य, निर्गत -धावन्मृगो-दैवात्कूपे पतित-2। हा हन्त ! भाग्ये विपरीते सति न किर्माप पौरुषेण सिध्यति ॥ ८८ ॥ शेपाः-हतशेषा सूपका । आरब्ध =आरब्धवान् । यस्य निधानस्य। ऊष्मणा= प्रभावेण । ('गर्मी से')। अरमणीयम् असुन्दरम् । उद्वेगकारकम् अरतिप्रदम्। १ करोति'इति पाठे-पौरुष किं करोतीत्यन्वयः। .