पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

२०७ रूपकशतेन विक्रीयमाणः पुस्तको गृहीतः । तस्मिश्च लिखितमस्ति- प्राप्तव्यमर्थं लभते मनुष्यो, देवोऽपि तं लचयितुं न शक्तः । तस्मान्न शोचामिन विस्मयो मे, यदस्मदीयंन हि तत्परेपाम् ॥११३।। तदृष्ट्वा सागरदत्तेन तनुजः पृष्टः-'पुत्र ! कियता मूल्येनैप पुस्तको गृहीतः? । सोऽब्रवीत्-'रूपकशतेन । तच्छ्रुत्वा सागर- दत्तोऽब्रवीत्-धिङ् मूर्ख! त्वं लिखितैकश्लोकं रूपकशतेन यद्गृह्लासि, एतया वुझ्या कथं द्रव्योपार्जनं करिष्यसि ?। तदद्य- प्रभृति त्वया मे गृहे न प्रवेष्टव्यम्। एवं निर्भय॑ गृहान्निःसारितः। स च तेन निदेन विप्रकृष्टं देशान्तरं गत्वा किमपि नगर- मासाद्याऽवस्थितः। अथ कतिपयदिवसैस्तन्नगरनिवासिना केन- चिदसौ पृष्ट -'कुतो भवानागतः?, किन्नामधेयो वा ?' इति । असावव्रवीत्-'प्राप्तव्यमर्थ लभते मनुष्यः' इति। अथान्येनापि पृष्टेनाऽनेन तथैवोत्तरं दत्तम् । एवं यः कश्चित्पृच्छति, तस्येदमे- वोत्तरं ददाति। एवञ्च तस्य नरगस्य मध्ये 'प्राप्तव्यमर्थ'इति प्रसिद्ध नाम जातम् । अथ राजकन्या इन्दुमती नामाऽभिनवरूपयौवनसम्पन्ना सखीद्वितीयैकस्मिन्महोत्सवदिवसे नगरं निरीक्षमाणाऽस्ति । तत्रैव च कश्चिद्राजपुत्रोऽतीवरूपसरपन्नो मनोरमश्च कथमपि तस्या दृष्टिगोचरङ्गतः। तदर्शनसमकालमेव कुसुमवाणहतया तथा निजसख्य- तयेतिपाठे-जीवितकालावोपतया । प्राप्तव्यम् अवश्यलभ्यम् । देव =विधिरपि । लवयितुं-विनाशयितुम् । अन्यथाकर्तुम् । विस्मय =आश्चर्यम् ॥ ११२ ॥ रूपकशतेन रूप्यकगतेन (१०० रुपये मे) । पुस्तक =पुस्तकम् । (पोथी)। गृहीत -क्रीत । निर्भय॑-तिरस्कृत्य । निर्वेदेन शोकेन । विप्रकृष्टं-दूरतरम् । त्तया = इन्दुमत्या। कुसुमवाण =काम । हले हेसखि । क्वचित्तथैव पाठ । १'चन्द्रमतीति 'चन्द्रवतीति च पाठान्तरम् ।