पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२०

  • पञ्चतन्त्रम् *

[२ मित्र- शृगाल्याह-'भोः कापुरुषस्त्वं,यत्किञ्चित्प्राप्तं तेनैव सन्तोषं करोषि । उक्तञ्च- सुपूरा स्यात्कुनदिका, सुपूरो मूपिकाञ्जलि' । सुसन्तुष्ट. कापुरुपः, स्वल्पकेनापि तुष्यति ।। १४५ ॥ तस्मात्पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तञ्च- यत्रोत्साहसमारम्भो यत्रालस्यविहीनता । नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ।। १४६॥ न 'दैव'मिति सञ्चिन्त्य त्यजेन्नोद्योगमात्मनः । अनुद्योगेन नो तैलं तिलेभ्योऽपि हि जायते ॥ १४७॥ अन्यच्च- यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः । तस्य भाग्यविहीनस्य दत्ता श्रीरपि माय॑ते ॥ १४८॥ यच्च त्वं वसि-एतौ पतिष्यतो न वेति ? । तययुक्तम् । उक्तञ्च- कृतनिश्चयिनो वन्द्यास्तुङ्गिमा न प्रशस्यते । चातकः को वराकोऽयं ?, यस्येन्द्रो वारिवाहकः ॥१४९।। अपरं-मूषकमांसस्य निर्विण्णाऽहम् , एतौ च मांसपिण्डौ पतनप्रायौ श्येते, तत्सर्वथा नान्यथा कर्तव्यम्'-इति । अथासौ तदाकर्ण्य सूपकप्राप्तिस्थानं परित्यज्य तीक्ष्णविषा- णस्य पृष्ठमन्वगच्छत् । अथवा साध्विदमुच्यते- तावत्स्यात्सर्वकृत्येषु पुरुपोऽत्र स्वयं प्रभुः । स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नो ह्रियते बलात् ।। १५० ॥ यन्त्रेति । उत्साहन-समारम्भ कार्यारम्भ. । 'समालम्ब इत्यपि पाठः । नयस्य-नीतेर्विनयस्य च । संयोग -समवाय । तत्र-महात्मनि पुरुषे । नेति । 'ना-उद्योग'मितिच्छेदः । दैवमस्तीत्येवं विचार्य-ना-पुरुष , आत्मन उद्योगं न त्यजेत् । तिलेभ्योऽपि तेलमुद्योगेन विना न लभ्यते, अत उद्योग आवश्यक एवे. त्यर्थ ॥१४७॥ दत्ता-भाग्यप्राप्तापि । माय॑ते श्रीयते ॥१४८॥ तुहिमा शरीर- महत्त्वं । वारिवाहक जलवाहक ('पनिहारा' ) ॥१४९॥ निर्विण्णा=खिन्ना । -