पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२३ सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

तद्भद्र हिरण्यक ! एवं ज्ञात्वा धनविषये सन्तापो न कार्यः । अथ विद्यामानमपि धनं भोगवन्ध्यतया तदविद्यमानं मन्तव्यम् । उक्तञ्च- गृहमध्यनिखातेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ? ॥ १५४ ॥ तद्विधाता मां दत्तभुक्तधनं करोतु; न कार्य मे गुप्तधनेन ।' तत. सोमिलको दत्तभुक्तधनः सञ्जात । अतोऽहं ब्रवीमि-'अर्थस्योपार्जनं कृत्वा'-इति ।। प तथा च- उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥१५५।। दातव्यं भोक्तव्यं धनविपये सञ्चयो न कर्त्तव्यः । पश्येह मधुकरीणां सञ्चितमर्थ हरन्त्यन्ये ॥१५६।। अन्यच्च- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुक्ते तस्य तृतीया गतिर्भवति ॥१५७॥ एवं ज्ञात्वा विवेकिना न स्थित्यर्थ वित्तोपार्जनं कर्तव्यम् , यतो दुःखाय तत् । उक्तञ्च- धनादिकेषु खिद्यन्ते येऽत्र मूर्खाः सुखाशया । तप्ता ग्रीष्मेण सेवन्ते शैत्यार्थ ते हुताशनम् ॥१५८।। सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । विधाता ब्रह्मा । कर्माधिष्ठात्री देवता। कर्मभोगवन्ध्यतया उपभोगदानादि- फलशून्यतया । तेन=निगूढेन । (गाडकर-रखेहुए ) तेनेव अन्यैर्निखातेन ॥ ॥१५४॥ परीवाह प्रणालिकामार्गेण क्षेत्रादौ प्रापणम् ( सिचाई )॥ १५५॥ मधुकरी मधुमक्षिका । अन्ये अन्ये लोकाः ॥ १५६ ॥ तृतीया गतिः चौरादिना नाश. ॥ १५७ ॥ स्थित्यर्थ केवलं स्थापनार्थम् । धनादीति । धनपुत्रदारादौ सुखाशा मृगतृष्णैवेति भावः ॥ १५८ ॥ HS