पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

२२९ आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चिद्योऽत्र मित्रविवर्जितः ॥ १८१ ॥ हिरण्यक आह-भद्र! त्वं तावन्नीतिशास्त्रज्ञो दक्षमतिः, तत्कथमत्र कूटपाशे पतितः । स आह-भोः! न कालोऽयं विवादस्य । तन्न यावत्स पापात्मा लुब्धकः समभ्येति तावद् द्रुततरं कर्तयेमं मत्पाशम् । तदाकर्ण्य विहस्याह हिरण्यकः- कि मय्यपि समायाते लुब्धकाद्विभेषि? । यतःशास्त्रं प्रति महती मे विरक्तिः सम्पन्ना, यद्भवद्विधा अपि नीतिशास्त्रविद् एनाम- वस्थां प्राप्नुवन्ति, तेन त्वां पृच्छामि ।' स आह-'भद्र । कर्मणा बुद्धिरपि हन्यते । उक्तञ्च- कृतान्तपाशबद्धानां दैवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ १८२ ॥ विधात्रा रचिता या सा ललाटेऽक्षरमालिका । न तां मार्जयितुं शक्ताः स्वबुद्धयाऽप्यतिपण्डिता. ।। १८३ ॥ एवन्तयोः प्रवदतोः सुहृव्यसनसन्तप्तहृदयो मन्थरकः शनैः- शनैस्तं प्रदेशमाजगाम। तं दृष्ट्वा लघुपतनको हिरण्यकमाह- 'अहो न शोभनमापतितम् ।' हिरण्यक आह-किं स लुब्धकः समायाति' । स आह-'आस्तां तावल्लुब्धकवार्ता। एष मन्थरक समागच्छति। तदनीतिरनुष्ठिताऽनेन, यतो वयमस्य कारणान्नूनं व्यापादनं यास्यामः। यदि स पापात्मा लुब्धकः समागमिष्यति-तदहं तावत्खमु- त्पतिष्यामि, त्वं पुनर्बिलं प्रविश्यात्मान रक्षयिष्यसि, चित्राङ्गो- , पुनरपि । संश्लिष्ट =समन्वित , संयुक्त । 'संहृष्ट' इति तु वयं गौडाः पठामः । अमला =अकपटाः, निर्दोषाश्च ॥ १८१॥ दक्षमति. निपुणबुद्धि । कर्तय= छिन्धि । एना-वन्धनादिरूपाम् । मृत्युपाशवद्धानाम् । दैवेन अदृष्टेन । उप- हतं कुण्ठितं चेतो येपा-तेषाम् । कुजगामिन्यः विकलगतय , कुण्ठिताः॥१८२॥ सुहृव्यसनसन्तप्तहृदया मित्रविपत्तिदु खितचित्त । मन्थरक तन्नामा कच्छप ।