पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति ]

  • अभिनवराजलक्ष्मीविराजितम् *

२३१ प्रति प्रस्थितः। अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-'कष्टं भोः १ । कष्टमापतितम्- एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्वनबहुलीभवन्ति ॥१८६।। यावदस्खलितं तावत्सुखं याति समे पथि । स्खलिते च समुत्पन्ने विपमञ्च पदे पदे ॥ १८७ ॥ यन्ननं सगुणं चापि यच्चापत्सु न सीदति । धनुर्मिनं कलत्रं च दुर्लभं शुद्धवंशजम् ॥ १८८ ॥ न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्रम्भस्तादृशः पुंसां यादृड्मिने निरन्तरे ॥ १८९ ॥ यदि तावत्कृतान्तेन मे धननाशो विहितस्तन्मार्गश्रान्तस्य मे विभामभूतं मित्रं कस्मादपहृतम् ? । अपरमपि-मित्रं परं मन्थरकसमं न स्यात् । उक्तञ्च- असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा। आपद्विमोक्षणं चैव मित्रस्यैतत्फलत्रयम् ॥ १९०॥ तदस्य पश्चान्नान्यः सुहृन्मे। तकि ममोपर्यनवरतं व्यसन- शर्षति हन्त ! विधिः। यत आदौ तावद्वित्तनाशः, ततः परिवारभ्रंशः, ततो देशत्यागः, ततोमित्रवियोगः-इति । अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां, जीवितधर्मस्य च । उक्तञ्च- कायः सन्निहिताऽपायः सम्पदः क्षणभङ्गुराः। समागमाः सापगमाः सर्वेषामेव देहिनाम् ॥ १९१॥ सम्पादित =सन्निधौ प्रेषित.। द# =तन्मयैर्वन्धनै । अर्णवस्य-सागरस्येव महतो दु खस्यैकस्य यावन्न समाप्तिरित्यर्थः। छिद्रपु-व्यसनेषु । बहुलीभवन्ति वर्धन्ते ॥ १८६ ॥ अस्खलितम् अपतनं, पादमोटनाद्यभावश्च । (स्खलितम्-गिरना' 'चोट- खाना' ) । विषमं व्यसनादिना वैषम्यम् ॥ १८७ ॥ न सीदति-न विषादमनु- भवति । ('न घवडावे')। शुद्धवंशज-सुकुलोत्पन्नम् , गुणवद्वंशजञ्च । ( वंश= 'बांस' व 'खान्दान' ) ॥ १८८ ॥ सोदर्ये समानोदरे भ्रातरि ('सगा भाई )।