पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ पञ्चतन्त्रम् * [२ मित्र- तथा च-क्षते प्रहारा निपतन्त्यभीक्ष्णं धनक्षयेदीप्यति जाठराग्निः । आपत्सु वैराणि समुल्लसन्ति छिद्रेष्वना बेहुलीभवन्ति ।।१२।। अहो ! साधुक्तं केनापि- शोकाऽरातिभयत्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं 'मित्र'मित्यक्षरद्वयम् ? ।। १९३॥ अत्रान्तरे चाऽऽक्रन्दपरौ चित्राङ्गलघुपतनको तत्रैव समा. याती। अथ हिरण्यक आह-'अहो! किं वृथा प्रलपितेन ? तद्यावदेष मन्थरको दृष्टिगोचरान नीयते, तावदस्य मोक्षोपाय. श्चिन्त्यताम्'-इति । उक्तञ्च- व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्याऽन्तं नाधिगच्छति ॥ १९४ ॥ केवलं व्यसनस्योक्तं भेपजं नयपण्डितैः । तस्योच्छेदसमारम्भो विषादपरिवर्जनम् ॥ १९५ ॥ अन्यच्च-अतीतलाभस्य सुरक्षणार्थ भविष्यलाभस्य च सगमार्थम् । आपत्प्रपन्नस्य च मोक्षणार्थ यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः।।१९।। तच्छ्रुत्वा वायस आह-भोः, यद्येवं तक्रियतां मद्वचः, एष आत्मजः-पुत्रः। विश्रम्भः विश्वासः। निरन्तरे अभिन्ने ॥१८९॥ कृतान्तेन- दुरदृष्टेन । 'कृतान्तो यमसिद्धान्तदैवाऽकुशलकर्मसु' इति विश्वः। अपरम् अन्यत् । असम्पत्तौ दारिद्रयनिपाते। परो लाभः उत्तमा धनाप्तिः। गुह्यस्य- गुप्तस्य । हन्त ! इति विषादे। स्वरूपम् प्रकारः, उदाहरणं वा । जीवितधर्मस्य= जीवनस्य। सन्निहितापायः समीपतरवर्तिनाशः। सापगमाः सवियोगाः ॥९१९॥ क्षतेव्रणे । ('चोट पर चोट')। जाठराग्नि उदरभवोऽग्निः ('पेट की ज्वाला' 'भूख'। ) समुल्लसन्ति प्रकाशन्ते ॥१९२॥ परित्राणं-रक्षणम् । प्रीतिविश्रम्भयोः= स्नेहविश्वासयोः । भाजनं पात्रम् ॥ १९३ ॥ भाक्रन्दपरी-विलापपरौ। भेषजं- प्रतीकारः । उच्छेदसमारम्भः विनाशोद्योगः। विषादपरिवर्जन-शोकत्यागः । ॥ १९५॥ अतीतलाभस्य-पूर्षलब्धस्य । सङ्गमः-निष्पत्तिः। परमः-उत्तम. १. 'बहलीभवन्तीति पाठे-बहलं धनम् । २. 'भविष्यदायस्येति गौडाः पठन्ति ।