पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ पञ्चतन्त्रम् [२ मित्र- यावत्पश्यति; तावत्कच्छपोऽपि गतः। ततश्च तत्रोपविश्यमं श्लोकमपठत्- प्राप्तो बन्धनमप्ययं गुरुमृगस्तावत्त्वया मे हृतः सम्प्राप्तः कमठः स चापि नियतं नष्टस्तवाऽऽदेशतः । क्षुरक्षामोऽत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया यच्चान्यन्न कृतं कृतान्त! कुरुते तचापि सह्यं मया॥१९८॥ -एवं बहुविधं विलप्य स्वगृहं गतः। अथ तस्मिन्व्याधे दूरतरङ्गते सर्वेपि ते काककूर्ममृगमूषिकाः परमानन्दभाजः परस्परमालिङ्ग य पुनर्जातमिवात्मानं मन्यमानास्तदेवसरः सम्प्रा- प्य महासुखेन सुभाषितकथागोष्ठीविनोदेन कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्रसङ्ग्रहः कार्यः। न च मित्रेण सह व्याजेन वर्तितव्यमिति । उक्तञ्च यतः- यो मित्राणि करोत्यत्र न कौटिल्येन वर्तते । तैः समं न पराभूति सम्प्राप्नोति कथञ्चन ।। १९९ ।। इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे मित्रसम्प्रोप्तिर्नाम द्वितीयं तन्त्रम् । गुरुभूगः-महान् मृग.। त्वया देवेन । कमठ-कच्छप. । नियतम् = अवश्यम् । आदेशतः आज्ञात.। क्षुत्क्षाम =क्षुधाक्षीण. । भार्यया शिशुकैश्च विरहितः रहितः। भ्रमामि इतस्ततो वने पर्यटामि। कृतान्त हे विधात: 11 ते तव । मया सह्यमेवेत्यर्थः ॥ १९८ ॥ एवं काककूर्मादिकथां ज्ञात्वा । न च नहि । व्याजेन -कपटेन। तै. मित्रैः। पराभूति-शत्रुकृतं पराभवम् । न प्राप्नोति-न लभते । अतो मित्रसम्पदा सर्वेषां शिवम् । इति श्रीजगद्विदितमाहात्म्य-षट्शास्त्रवाचस्पति-मरुमण्डलमार्तण्ड- श्रीस्नेहिरामशास्त्रिणां पौत्रेण, 'प्रतिवादिभयङ्करभयङ्कर- विद्यावाचस्पति-न्यायशास्त्राचार्य-श्रीशिवनारायण- शास्त्रिणां पुत्रेण, श्रीराजलक्ष्मीगर्भसम्भूतेन श्री- गुरुप्रसादशास्त्रिणा विरचितायाम्पश्चतन्त्रा- भिनवराजलक्ष्यां मित्रसम्प्राप्ति- नाम द्वितीय तन्त्रम् - १ 'त्यक्तस्तथा भार्यया' इति गौडाः पठन्ति । २ 'मित्रप्राप्ति' इति पाठान्तरम् । .