पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६

  • पञ्चतन्त्रम्

[ ३ काको- तदेवं संश्रयं विना न कश्चित्प्रतीकारो भवति । तस्मात्संश्रयः कार्य इति मेऽभिप्रायः -एवं चिरञ्जीविमन्त्रः। अथैवमभिहिते स मेघवर्णो राजा चिरन्तनं पितृसचिवं दीर्घ- दर्शिनं सकलनीतिशास्त्रपारङ्गतं स्थिरजीविनामानं प्रणम्य प्रोवाच-'तात ! यदेते मया पृष्टाःसचिवास्तावनस्थितस्यापि तव,-तत्परीक्षार्थ, येन त्वं सकलं श्रुत्वा यदुचितं तन्मे समादि- शसि । तद्यधुक्तं भवति तत्समादिश्यताम् । स आह-वत्स ! सर्वैरप्येतैर्नीतिशास्त्राश्रयमुक्तंसचिवैः,तदुपयुज्यतेस्वकालोचितं सर्वमेव । परमेप द्वैधीभावस्य कालः। उक्तञ्च- अविश्वासं सदा तिष्ठेत्सन्धिना विग्रहेण च । द्वैधीभावं समाश्रित्य पापे शत्रौ बलीयसि ।।६०॥ ततः स्वयमविश्वस्तैर्लोभं दर्शयद्भिः शत्रुर्विश्वास्य सुखेनो- च्छिद्यते । उक्तञ्च- उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा । गुडेन वर्धितः श्लेष्मा सुखं वृद्धया निपात्यते ।। ६१ ॥ चिरन्तनं-पुरातनं, वृद्धम् । पितृसचिवं-पितुरमात्यम् । चिरजीवीत्यपि पाठः । एते अनुजीव्यादयः सर्वे मन्त्रिण.। अत्र स्थितस्यापि अत्र स्थितं भवन्त- मनाहत्य-अपृष्ट्वैव । परीक्षार्थ परितः सकलस्य विषयस्योपस्थित्यर्थम् । तत्- वाह-येनेति । सकलं सर्वेषां वचनम् । समादेश्यं सम्यगादिश्यताम् । तत्= एतदुक्तम् स्वकालोचितं-स्वे स्वे समये सर्वमप्युपयुज्यते । एषः इदानीमुप- स्थितः ।द्वैधीभावः सन्धिना शत्रु विश्वास्य सत्यवसरे तद्दषणम् । बलीयसि रिपौ सन्धि कृत्वापि द्वैधीभावमाश्रित्य सदैवाऽविश्वस्त. तिष्ठेत्, न तु द्वैधीभावमाश्रितो नृपो वलीयसि विश्वासं कुर्यादित्यर्थः। सन्धिमादौ बलवता विधाय काले विग्रहः कार्य इति तत्त्वम् । 'नैव शत्राविति पाठस्त्वयुक्त एव ॥ ६० ।। लोभं दर्शयनि-लोभादिना भेदं जनयद्भिः, विजयादिलोभं दर्शयद्भिर्वा । 'स्वचारै रिति शेषः। उच्छेद्य-विनाशनीयमपि । एकदा-किञ्चित्कालपर्यन्त । श्लेष्मा कफ । वृद्धया वर्धनेनैव । निपात्यते-दूरीक्रियते। 'वैद्यै रिति शेप । शम. १ तच्छत्रु विश्वास्य' इति, 'सुखेनोच्छिद्यते रिपु' इतिपा० ।