पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् **

११ गौष्टिककर्मनियुक्त श्रेष्ठी चिन्तयति चेतसा हृष्टः । वसुधा वसुसंपूर्णा मयाऽद्य लब्धा, किमन्येन ।। १५ ।। परिचितमागच्छन्तं ग्राहकमुत्कण्ठया विलोक्याऽसौ । हृष्यति तद्धनलुब्धो यद्वत्पुत्रेण जातेन ॥ १६ ॥ अन्यच्च- पूर्णाऽपूर्णैर्मानैः परिचितजनवञ्चनं, तथा नित्यम् । मिथ्याक्रयस्य कथनं, प्रकृतिरियं स्यात्किराटानाम् ।। १७॥ अन्यञ्च- द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः । प्राप्नुवन्त्युद्यमाल्लोका दूरदेशान्तरं गताः ॥ १८ ॥ निक्षेपे वृद्ध्यर्थ परैनिक्षिप्ते धने । हर्ये-स्वभवने । पतिते-आगते सति । श्रेष्ठी धनी वणिक् ( सेठ ) । स्वदेवता-स्वेष्टदेवताम् । स्तौति-उपयाचते । तदेवाह-निक्षेपी-धनस्थापक, म्रियते ( चेत् ) तुभ्य-देवतायै, उपयाचितम्= उपहार, [ भेंट 'परसाद' शीरनी] ।। १४ ॥ अद्य-गौष्ठिककर्मणि नियुक्तेन मया। वसुधा पृथिवी । वसुसम्पूर्णा धान्य- धनपूर्णा । लब्धा प्राप्ता । अन्येन इतोऽन्येन, किं न किमपि प्रयोजनं । नातोऽ- धिकं वाञ्छामि, सिद्धो मे हन्त ! मनोरथ इत्याशय । (गौष्ठिककर्म-राजभण्डार की रखवाली, राजभाण्डार में अनाज इकट्ठा करना। खजाने की रक्षा, सेना आदि को रसद देना । या तहसीलदारी)। परिचितं ग्राहकमागच्छन्तमुत्कण्ठया विलोक्य असौ श्रेष्ठी, ['सेठ] तस्य ग्राहकस्य धने,लुब्ध =अभिलाषवान् ॥१६॥ पूर्णैश्च अपूर्णैश्च पूर्णाऽपूणे =कपटघटितै, मान. तुलामानसाधनादिभि । [तराजु-' 'बटखरा'] परिचितजनाना-विश्वस्तग्राहकाणा। वञ्चनं-लुण्ठनम् । तथा=किञ्च, क्रयस्य मूल्यस्य, मिथ्याकथन-मिथ्या वद्धितैर्मूल्यै शपथशाह- काणा वञ्चनं । किराट वणिक् । ( किराड)। यथा-'किराटोऽटति साटोपं चेला- ञ्चितकटीतट' इति क्षेमेन्द्रस्य कलाविलासे वैश्यवर्णने ॥ १७ ॥ भाण्डानां विक्रयद्रव्याणा। क्रये-सङ्ग्रहे । विचक्षणाः कुशला । लोका = १ 'पूर्णाऽपूर्णे माने' इत्यपि पाठ कचित् ।