पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ १. पञ्चतन्त्रम् * [३ काो- I ~ Win 'अहो ! विनष्टा वयम् , नित्यमेवैतद्गजयूथमागमिष्यति, यतो नान्यत्र जलमस्ति । तत्सर्वेषां नाशो भविष्यति। उक्तञ्च- स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ।। ८१ ॥ तञ्चिन्त्यतां कश्चिदुपायः'। तत्रैकः प्रोवाच-गम्यतां देश त्यागेन,-क्रिमन्यत् । त्यजेदेकं कुलस्याऽर्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥२॥ क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ।। ८३ ।। आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेदारैरपि धनैरपि' ॥ ८४॥ ततश्चान्ये प्रोचुः-'भोः! पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तुम् , तक्रियतां तेषां कृते काचिद्विभीषिका,-यत्कथ- मपि देवान्न समायान्ति । उक्तञ्च- निर्विषेणापि सर्पण कर्तव्या महती फटा। विषं भवतु मा वाऽऽस्तु फटाटोपो भयङ्करः ॥ ८५ ॥ अथाऽन्ये प्रोचुः-'यद्यवं ततस्तेषां महद्विभीषिकास्थानमस्ति येन नागमिष्यन्ति । सा च चतुरदूतायत्ता बिभीषिका। तत्र विजयदत्तो नाम राजाऽस्मत्स्वामी शशकश्चन्द्रमण्डले निवसति तत्प्रेष्यतां कश्चिन्मिथ्यादूतो यूथाधिपसकाशं यत्-चन्द्रस्त्वामत्र स्थानानि । जर्जरितकलेवरा:-शीर्णशरीराः। स्पृशन्-स्पर्शमात्रेणापि ॥ ८१ ॥ एक-गृहभूपरिजनधनादिकम् । अर्थ-उपकाराय । रक्षणाय च । क्षेम्यां-कल्याण- दाम् । आत्मार्थ-स्वरक्षणाय ॥ आपदर्थे विपत्तिनाशाय॥४४॥तेषां गजानाम् । विभीषिका भयजननम् । चतुरदूतायत्ता-कुशलदूताधीना । मिथ्यादूतः विजय-