पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

हदे आगच्छन्तं निषेधयति, यतोऽस्मत्परिग्रहोऽस्य समन्ता. द्वसति ।' एवमभिहिते भद्धेयवचनात्कदाचिन्निवर्तते।' अथान्ये प्रोचुः-'यद्येवं तदस्ति लम्वकर्णों नाम शशकः, स च वचनरचनाचतुरो दूतकर्मज्ञः। स तत्र प्रेष्यतामिति । उक्तञ्च- साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणाः । परचित्तावगन्ता च राज्ञो दूतः स इष्यते ।। ८६ ।। अन्यच्च- यो मूर्ख लौल्यसम्पन्नं राजद्वारिकमाचरेत् । मिथ्यावादं विशेषेण तस्य कार्य न सिध्यति ।। ८७ ।। तदन्विष्यतां यथाऽस्मायसनादात्मनां सुनिर्मुक्तिः' अथान्ये प्रोचुः-'अहो ! युक्तमेतत् , नान्यः कश्चिदुपायोऽस्माकं जीवित- स्य, तत्तथैव क्रियताम्'। अथ लम्बकर्णो गजयूथाधिपसमीपे निरूपितो, गतश्च । तथानुष्ठिते लम्बकोऽपि गजमार्गमासाद्या- ऽगम्यं स्थलमारुह्य तं गजमुवाच-'भो! भो दुष्टगज ! किमेवं लीलया निःशङ्कतयाऽत्र चन्द्रहदे आगच्छसि ?, तन्नागन्तव्यं, निवर्त्यताम्'-इति। तदाकर्ण्य विस्मितमना गज आह-भोः ! कस्त्वम् ?'। स आह-'अहं लम्बकर्णो नाम शशकश्चन्द्रमण्डले वलामि-साम्प्रतं भगवता चन्द्रमसा तव पार्थे प्रहितो दूतः। . दत्तस्य राज्ञो मिथ्यादूत । अस्मत्परिग्रहः मम चन्द्रस्यानुचरवर्ग । समन्तात्= हृदस्य सर्वत.। श्रद्धेयवचनात विश्वासार्हवाक्यात् । साकार -सुन्दराकृति , नि. स्पृह = त्यागी । वाग्मी वाक्पटुः ॥ ८६ ॥ लौल्यसम्पन्न चाञ्चल्ययुर्त, लुब्धञ्च । मिथ्यावाद-मिथ्याभाषिणम् । राजद्वारिकं-राजप्रतिनिधिम् , 'राजा दूतं समाचारे'. दिति गौडा. पठन्ति ॥ ८७ ॥ सुनिर्मुक्तिः रक्षणम् । तथैव-दूतप्रेषणमेव । निरूपितः निश्चित. । 'दूतत्वे- नेति शेप । अगम्यं दुर्गमम् । लीलया हेलया। प्रहितो दूतः दूतत्वेन प्रहित.। भवान्