पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४

  • पञ्चतन्त्रम् *

[३ काको- -एवं विचिन्त्य काकोऽपि प्रयातः। तदा प्रभृत्यस्माभिः सह कौशिकानामन्वयगतं वैरमस्ति ।' "मेघवर्ण आह-'तात! एवं गतेऽस्माभिः किं कृत्यमस्ति ?। स आह-'वत्स? एवं गतेऽपिषागुण्यादपरश्छलोऽप्युपायोस्ति, तमङ्गीकृत्य स्वयमेवाहं तद्विजयाय यास्यामि। रिपून्वञ्चयित्वा वधिष्यामि। उक्तञ्च यतः- बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटाः । शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छगलादिव ॥११४|| मेववर्ण आह-कथमेतत् ? । सोऽब्रवीत्- ३. धूर्तत्रयबा यब्राह्मणच्छागकथा कस्मिश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्रपरि. ग्रहः प्रतिवसति स्म । तेन कदाचिन्माधमासे सौम्यानिले प्रवाति मेघाच्छादिते गगने, मन्दं मन्दं प्रवर्षति पर्जन्ये, पशुप्रार्थनाय कश्चिन्द्रामान्तरङ्गत्वा कश्चिद्यजमानो याचितः-'भो यजमान ! आगामिन्याममावस्यायामहं यक्ष्यामि यज्ञ, तद्देहि मे पशुमेकम् । अथ तेन तस्य शास्त्रोक्त: पीवरतनुः पशुः प्रदत्तः । सोऽपि तं समर्थमितश्चेतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्वपुरा. भिमुखः प्रतस्थे । अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्क्षाम- कण्ठा संमुखा बभूवुः तैश्च तादृशं पीवरं पशुं स्कन्धे आरूढमवलोक्य मिथोऽभि- हितम्-'अहो! अस्य पशोभक्षणादद्यतनीयो हिमपातो व्यर्थतां कोशिकानाम्-उलूकानाम् । अन्वयगतं-कुलपरम्परागतम् । षाड्गुण्यात्= सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाख्यात् । 'स्थूलोऽभिप्राय'इति पाठे-स्थूल:= महान् । अभिप्रायः छलाख्य उपायः । तद्विजयाय उलूकराजविजयाय । छगल =अजः । ('छाग' 'बकरा')॥ ११४ ॥ कृतोऽग्निहोत्रस्य परिग्रहः-स्वी- कारो येनासौ तथाभूतः। सौम्यानिले अतिशीतले-ईशानकोणपवने । पर्जन्ये= मेघे । पशुप्रार्थनाय यागीयपशुप्रार्थनाय । पीवरतनुः पुष्टः । समर्थ चञ्चलम् । १'छागलादिति पा०॥