पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[३ काको- - तत्त्यजैनं यावदन्यः कश्चिन्न पश्यति'। अथाऽसौ तं पशु रासभं मन्यमानो भयाद्भूमौ प्रक्षिप्य स्वगृहमुद्दिश्य प्रपलायितः । ततस्ते त्रयो मिलित्वा तं पशुमादाय यथेच्छया भक्षितुमा. रब्धाः । अतोऽहं ब्रवीमि-'बहुबुद्धिसमायुक्ताः-'इति। छ । अथवा साध्विदमुच्यते- अभिनवसेवकविनयैः प्राघुणिकोक्तैर्विलासिनीरुदितैः । धूर्तजनवचननिकरैरिह कश्चिदवश्चितो नास्ति ॥११८ ॥ किञ्च दुर्बलैरपि बहुभिः सह विरोधो न युक्तः । उक्तञ्च- बहवो न विरोद्धव्या दुर्जयो हि महाजनः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥११९।। मेघवर्ण आह-'कथमेतत् ?' । स्थिरजीवी कथयति- ४. पिपीलिकाभुजङ्गमकथा अस्ति कस्मिश्चिद्वल्मीके महाकायः कृष्णसोऽतिदर्पो नाम। स कदाचिद्विलानुसारिमार्गमुत्सृज्याऽन्येन लघुद्वारेण निष्क्रमितु. मारब्धः । निष्कामतश्च तस्य महाकायत्वाद्देववशतया लघुविव- रत्वाच्च शरीरे व्रणः समुत्पन्नः। अथ व्रणशोणितगन्धानुसारि- णीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च । कति व्यापादयति ? कति वा ताडयति ? | अथ प्रभूतत्वाद्विस्तारितबहुव्रणाभिः क्षतसर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः । अतोऽहं ब्रवीमि-'बहवो न विरोद्धव्याः'-इति । । सचैलं परिहितवस्त्रसहितम् ॥ ११७ ।। अभिनवस्य-नवीनस्य-सेवकस्य-विनयैः विनम्राचरणैः। प्राघुणिकोक्त. देशदेशान्तरकथापरैरतिथिवचनैः। विलासिनी स्त्री ॥ ११८॥ महाजन.= जनसमूहः । स्फुरन्तं-फटाटोपभोषणमपि । नागेन्द्र-सर्पम् । वल्मीके-विले । लघुद्वारेण सङ्कुचितेन मार्गेण । व्रणस्य यच्छोणितं-रुधिरं, तस्य यो गन्ध, तेनानुसरन्ति तच्छीलाभिः। कति=कियतीः, ( कितनी ?)। प्रभूतत्वात wa