पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७०

  • पञ्चतन्त्रम् *

[ ३ काको- युष्मद्यापादितान् प्रभूतवायसान् दृष्ट्वा युष्माकमुपरि कोपशोक- अस्तो युद्धार्थ प्रचलित आसीत् । ततो मयाऽभिहितम्- 'स्वामिन् !नयुक्तं भवतस्तदुपरि गन्तुं, बलवन्त एते, बलहीनाश्च वयम् । उक्तश्व- बलीयसा हीनबलो विरोधं न भूतिकामो मनसापि वान्छेत् । ने बध्यतेऽत्यन्तबलो हि यस्माब्यक्तं प्रणाशोऽस्ति पतङ्गवृत्तः ॥१२६।। तत्तस्योपायनप्रदानेन सन्धिरेव युक्तः । उक्तञ्च- 'बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि बुद्धिमान् । दत्त्वा हि रक्षयेत्प्राणान्रक्षितैस्तैधनं पुनः' ॥ १२७ ॥ तच्छ्रुत्वा तेन दुर्जनप्रकोपितेन त्वत्पक्षपातिनं मामाशङ्कमाने- नेमां दशां नीतः। तत्तव पादौ साम्प्रतं शरणम् । किं बहुना विज्ञप्तेन,-यावदहं प्रचलितुं शक्नोमि, तावत्त्वां तस्याऽऽवासे नीत्वा सर्ववायसक्षयं विधास्यामि'-इति । अथाऽरिमर्दनस्तदाकर्ण्य पितृपितामहक्रमागतमन्त्रिभिः सार्ध मन्त्रयाञ्चके । तस्य च पञ्चमन्त्रिणः तद्यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनाशः, प्राकारकर्णश्चेति । तत्रादौ रक्ताक्षमपृच्छत्- 'भद्र ! एष तावत्तस्य रिपोर्मन्त्री मम हस्तगतः, ततिक क्रिय- तेन= भवत्स्वामिना सह । 'युष्मद्यापादितप्रभूतवायसाना पीडयेति पाठान्तरे- युष्मद्यापादितप्रभूतवायसानां भवद्भिर्हतानां बहूनां काकानां, पीडया शोकेनेत्यर्थः। एते-उलूकाः। बलीयसेति । अतिबलस्तु बलवत्त्वादेव न वध्यते-पीडयितुं न शक्यते। परं-किन्तु हीनबलस्तु, व्यक्त ध्रुवं-वहीं पतङ्गवत्प्रणश्यत्येवेत्यर्थ ॥ १२६ ।। उपायनस्य-उपहारस्य । प्रदानेन-समर्पणेन । (भेंट देकर )। उपप्रदाने- नेत्यपि पाठः। तै-प्राणैः ॥ १२७ ॥ तेन मेघवर्णेन, ( यावत् जिस समय' । तावत्-उसी समय )। तस्य मेघवर्णस्य। आवासे-निवासदुर्गे।, पितृपितामहक्रमागतमन्त्रिभि सार्ध-पर- १ 'कुर्यात्'। २ 'न वञ्चयते वेतसवृत्तिरथै रिति लिखितपुस्तकपाठस्तु शोभनः। ३ 'प्रावार'।