पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ .

  • पञ्चतन्त्रम् *

[ ३ काको मया कदाचिदपि न पूजिता, तेनेदं मे कृषिकर्म विफलीभवति, तदस्या अहं पूजामद्य करिष्यामि ।' इत्यवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपागत्योवाच-'भोः क्षेत्रपाल! मयैतावन्तं कालं न ज्ञात यत्त्वमत्र वससि-तेन पूजा न कृता, तत्साम्प्रतं क्षमस्व' । इत्येवमुक्त्वा दुग्धञ्च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर्यावदागत्य पश्यति, तावद्दीनार- मेकं शरावे दृष्टवान् । एवञ्च प्रतिदिनमेकाकी समागत्य तस्मै क्षीर ददाति-एकैकञ्च दीनारं गृह्णाति । अथैकस्मिन्दिवसे वल्मीके क्षीरनयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुन- हं समायातः । दिनान्तरे तत्र गत्वा दीनारमेकं च दृष्ट्वा गृहीत्वा च चिन्तितव.न्-'नूनं सौवर्णदीनारपूर्णो वल्मीकः, तदेनं हत्वा सर्वमेकवारं ग्रहीष्यामि ।' इत्येवं सस्प्रधार्याऽन्येद्युः क्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडितः। ततः कथमपि दैववशादमुक्तजीवित एव रोषात्तमेव तीव्र- विषदशनैस्तथाऽदशत्-यथा स सद्यः पञ्चत्वमुपागतः । स्वज नैश्च नातिदूरे क्षेत्रस्य काष्ठसञ्चयैः संस्कृतः । अथ द्वितीयदिने तस्य पिता समायातः स्वजनेभ्यः सुत- विनाशकारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च- भूतान् यो नाऽनुगृह्णाति, गृह्णाति शरणागतान् । भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा ॥१३१।। धर्मातः आतपादितः । प्रसारिता विस्तारिता या बृहती फटा, तस्या य आटोपः= आडम्बरः, तेन भीषणं भयानकम् । भुजङ्गम-सर्पम्। क्षेत्रदेवता-क्षेत्राधिष्टातृ- भूतो देवः। क्षीरं दुग्धं । याचित्वा=भिक्षित्वा । शरावे-मृत्पात्रे । ('परई' 'सराई' में) । वल्मीकान्तं विलसमीपे। साम्प्रतम् इदानीम् ।प्रायात् आजगाम । दीनारं स्वर्णनिष्कम् (मोहर) । निरूप्य-नियुज्य । सौवर्णदीनारपूर्णः स्वर्णमु- द्रापूरितः । एनं सर्पम् । सम्प्रधार्य=निश्चित्य । अमुक्तजीवितः न मृत । तमेव ब्राह्मणपुत्रमेव । तथैव समर्थितवान् ='दुष्टेन स्वकर्मणः फलमासादित'मित्येवं