पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२८५ प्रदृष्टमानसा तं पतिं देववत्प्रतिपद्याऽऽदाय चान्यविपय गता। ततः कस्मिंश्चिद्दरतरनगरप्रदेशे तडागतटे राजपुत्रमावासरक्षायै निरूप्य, स्वयञ्च वृततैलवणतण्डुलादिक्रयनिमित्तं सपरिवारा गता । कृत्वा च क्रयविक्रयं यावदागच्छति तावत्स राजपुत्रो वल्मीकोपरि कृतमूर्धा प्रसुप्तः । तस्य च मुखाद्गुजगः फणां निष्क्राम्य वायुमश्नाति । तत्रैव च वल्मीके ऽपरः सपो निष्क्रम्य तथैवासीत्। अथ तयो. परस्परदर्शनेन क्रोधसरक्तलोचनयोर्मध्याद्वल्मी- कस्थेन सर्पणोक्तम्-'भो भो दुरात्मन् ! कथं सुन्दरसर्वाङ्गं राज- पुत्रमित्थं कदर्थयसि ? । मुखस्थोऽहिरब्रवीतू-'भो भोः! त्वयापि दुरात्मनाऽस्य वल्मीकस्य मध्ये स्थित-कथमिदं दूषितं हाटकपूर्ण कलशयुगलम् ?' । इत्येवं परस्परस्य मर्माण्युद्धाटितवन्तौ। पुनर्वल्मीकस्थोऽहिरब्रवीत्-'भो दुरात्मन् ! भेषजमिदन्ते किं कोऽपि न जानाति ?-यजीर्णोत्कालितकाञ्जिकराजिका- पानेन भवान्विनाशमुपयति' । अथोदरस्थोऽहिरब्रवीत्-'तवाप्येतद्भेषजं किं कश्चिदपि न. वेत्ति यदुष्णतैलेन वा महोष्णोदकेन तवं विनाशः स्यात्-' ? इति । एवञ्च सा राजकन्या विटपान्तरिता तयोः परस्परा- स्वोपार्जितम् । इयमेव'।-नाहमित्याशय । तथा एवम्भविष्यति। प्रतिपद्य-स्वीकृ. त्य । अल्पपरिवारा-अल्पपरिजनसहिता। सा=कुमारिका । देववत्-देवतावत् । प्रतिपद्य-स्वीकृत्य। राजपुत्रं-स्वपतिम् । आवासरक्षायै स्थानरक्षायै। निरूप्य= निर्दिश्य । सपरिवारा-सेवकपरिचारिकायुता । वल्मीकोपरि सर्पविलोपरि । कृत- मूर्धा=निहितमस्तकः । भुजग =सर्प । निष्काम्य-उत्थाप्य । निष्क्रम्य बहिरा- गत्य ( निकलकर )। तथैव वायुमश्नन् । क्रोधसंरकलोचनया: क्रोधरक्तनेत्रयो- मध्ये । सुन्दरसर्वाङ्गं सर्वाङ्गसुन्दर । कदर्थयसि पीडयसि।अहि =सर्प.। दुरात्मना =दुष्टेन । मध्ये इत्यस्य 'स्थित'मिति शेष हाटकपूर्ण स्वर्णपूर्णम्। 'कलशयुगल'- मित्यस्य-दूषित' मिति शेष । उद्घाटितवन्तौ प्रकाशितवन्तौ । जीर्णमुत्कालि- तम्-उष्णीकृतश्च यत्कालिकं तस्य या राजिका तस्या पानेन । ( उकाली हुई