पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् ५

२८७ 2 स्त्रीणां तदा सतीत्वं स्याद्यदि स्याहुर्जनो हित. ।।१९३।। जानामि चैनां लोकवचनादसतीम् । उक्तञ्च- यच्च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत्सर्व वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्डमध्यगम्' ।।१९४|| एवं सम्प्रचार्य भार्यामवोचत्-'प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि, तत्र कतिचिहिनानि लगिष्यन्ति-तत्त्वया किमपि पाथेयं मम योग्यं विधेयम् ।' साऽपि तद्वचनं श्रुत्वा हर्षित- चित्तौत्सुक्यात्सर्वकार्याणि सन्त्यज्य सिद्धमन्नं घृतशर्कराप्रायम- करोत् । अथवा साध्विदमुच्यते- दुर्दिवसे घनतिमिरे वर्षति जलदे महाटवीप्रभृतौ । पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥१९५॥ अथाऽसौ प्रत्यूष उत्थाय स्वगृहानिर्गतः।साऽपि तं प्रस्थितं विज्ञाय प्रहसितवदनाङ्गसंस्कारं कुर्वाणा कथञ्चित्तं दिवसमत्य- वाहयत् । अथ पूर्वपरिचितविटगृहे गत्वा तं प्रत्युक्तवती-स दुरात्मा मे पति मान्तरं गतः, तत्त्वयाऽस्मद्गृहे प्रसुप्ते जने समागन्तव्यम्।' तथानुष्ठिते स रथकारोऽरण्ये दिनमतिवाह्य प्रदोषे स्वगृहे. उपद्वारेण प्रविश्य शय्याधस्तले निभृतोभूत्वा स्थितः। एतस्मिन्न- न्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः । तं दृष्ट्वा रोषा- विष्टचित्तो रथकारो व्यचिन्तयत्-'किमेनमुत्थाय हन्मि ? अथवा स रथकार । पावक. वह्नि । प्रोष्ण =अत्युष्णः । शशलाञ्छन -चन्द्र.। हितः= हितकारो ॥ १९३ ॥ लोकवचनात् जनश्रुत्या। असती-कुलटाम् । पाथेयं शम्वलम् । हर्षितचित्ता-प्रसन्नचिता । औत्सुक्यात् औत्कण्ठयात् । अन्न- पक्वान्नम् । दुर्दिवसे-घनान्धकारिते दिने। घनतिमिरे निबिडान्धकारे । जघन- चपलायाः-कुलटाया ॥ १९५ ॥ प्रत्यूषेप्रभाते । अगसंस्कार-स्वशरीरमार्जन- शृङ्गारादिकम् । अत्यवाहयत-व्यतिचक्रे (विताया) विटः जारः । दुरात्मा दुष्ट. । प्रसुप्ते=निद्रावशगे। तेथानुष्ठिते-विटे समा. गते । अपद्वारेण=भित्त्युल्लङ्घनादिना । (पिछवाड़े से)। निभृत =गुप्त । देवदत्त =