पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितस् *

२८९ रति ।भर्तापि पुनर्वर्षशतं जीवति । तेन त्वं मयाऽभ्यर्थितः । तद्य- किञ्चित्कर्तुमनास्तरकुरुष्व,'नहि देवतावचनमन्यथा भविष्यती' ति निश्चयः। ततोऽन्तर्हासविकासमुखः स तदुचितमाचचार । सोऽपि रथकारो मूर्खस्तस्यास्तद्वचनमाकर्ण्य पुलकाञ्चित. तनुः शय्याधस्तलान्निष्क्रम्य तामुवाच-साधु पतिव्रते ! साधु कुलनन्दिनि ! अहं दुर्जनवचनशङ्कितहृदयस्त्वत्परीक्षानिमित्तं ग्रामान्तरव्याजं कृत्वात्र खट्वाधस्तले निभृतं लीनः । तदेहि- आलिङ्ग माम् । त्वं स्वभर्तृभक्तानां मुख्या नारीणाम् ,यदेवं ब्रह्म- व्रतं परसङ्गेऽपि पालितवती ।। ममायुर्वृद्धिकृतेऽपमृत्युविनाशा र्थञ्च त्वमेवं कृतवती । तामेवमुक्त्वा सस्नेहमालिङ्गितवान् । स्वस्कन्धे तामारोप्य तमपि देवदत्तमुवाच-'भो महानुभाव ! मत्पुण्यैस्त्वमिहागतः, त्वत्प्रसादान्मया प्राप्तं वर्पशतप्रमाणमायुः, तत्त्वमपि मामालिङ्गय मत्स्कन्धे समारोह'।-इति जल्पन्ननि- च्छन्तमपि देवदत्तमालिङ्गय बलात्स्वकीयस्कन्धे आरोपितवान् । ततश्च नृत्यं कृत्वा 'हे ! ब्रह्मवतधराणां धुरीण! त्वयापि मय्युपकृतम्'-इत्याद्युक्त्वा स्कन्धादुत्तार्य यत्र-यत्र स्वजनगृह- द्वारादिषु वभ्राम, तत्र-तत्र तयोरुभयोरपि तद्गुणवर्णनमकरोत् । अतोऽहं ब्रवीमि-'प्रत्यक्षेऽपि कृते पापे-'इति । * तत्सर्वथा मूलोत्खाता वय विनष्टाः समः। सुष्ठ खल्विदमुच्यते- मित्ररूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः । ये हितं वाक्यमुत्सृज्य विपरीतोपसे विनः ॥ १९६॥ भवति-सिध्यति,। आदेशय आज्ञापय । सञ्चरति-सङ्कामति । अभ्यर्थित प्रार्थ- नयाहूत. । अन्तर्हासविकासमुख. ईषद्धासोत्फुल्लमुखकमलः । तदुचितं तत्कालो- चितं-निधुवनमहोत्सवम् । पुलकाञ्चिततनुः पुलकितशरीर । दुर्जनाना वचनैः शङ्कितं हृदयं यस्यासौ तथाभूतः। सामान्तरव्याज-यामान्तरगमनच्छलम् । भृतं प्रच्छन्नं। लीन =स्थित , (छिपा था)। स्वभर्तृभक्ताना=पतिव्रतानाम्।मुख्या प्रधानीभूता । एवम् अयोनिलिङ्गघर्षणरूपं महत् । ब्रह्मव्रतं संयममहानतम् । परसङ्गेपि परपुरुषसङ्गेऽपि । ता-कुलटाम् । ब्रह्मव्रतधराणा धुरीण-संयमव्रत- नि-