पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९५ - - लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् * ततः सोऽपि स्वतपोवलेन तां मूपिकां कृत्वा तस्मै प्रादात् । अतोऽहं ब्रवीमि- 'सूर्य भर्तारमुत्सृज्य' इति । " . अथ रक्ताक्षवचनमनादृत्य तैः स्ववंशविनाशाय स स्वदुर्ग- मुपनीतः। नीयमानश्चान्तीनमवहस्य स्थिरजीवी व्यचिन्तयत्- 'हन्यता मिति येनोक्तं स्वामिनो हितवादिना । स एवैकोऽत्र सर्वेपां नीतिशास्त्रार्थतत्त्ववित् ॥ २१०॥ तद्यदि तस्य -वचनमकरिष्यन्ते ततो न स्वल्पोऽप्यनों उभविष्यदेतेषाम्। अथ दुर्गद्वारं प्राप्याऽरिमर्दनोऽब्रवीत्-'भो भोः ! हितैषिणो- ऽस्य स्थिरजीविनो यथासमीहितं स्थानं प्रयच्छत ।' तञ्च श्रुत्वा स्थिरजीवी व्यचिन्तयत्-मया तावदेतेषां वधोपायश्चिन्तनीयः, स मया मध्यस्थेन न साध्यते, यतो मदीयमिड़ितादिकं विचार- यन्तस्तेऽपि सावधाना भविष्यन्ति । तद्दर्गद्वारमधिश्रितोऽभिप्रेतं साधयामि।' इति निश्चित्य उलूकपतिमाह-देव युक्तमिदं यत्स्वा- मिना प्रोक्तं, परमहमपि नीतिज्ञस्तेऽहितश्च, यद्यप्यनुरक्तः शुचि. स्तथापि दुर्गमध्य आवासो नाह.। तदहमत्रैव दुर्गद्वारस्थः प्रत्यहं भवत्पादपद्मरजःपवित्रीकृततनु सेवां करिष्यामि । 'तथा' इति प्रतिपन्ने प्रतिदिनमुलूकपतिसेवकास्ते प्रकाममाहारं कृत्वोलूक- राजादेशात्प्रकृष्टमांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कति. स्वजातिविहितं मूषकानुकूलं । गृहिणीधर्म-पत्नीवर्मम् । अन्तीनं-सुगुप्त ('मन ही मन', । हन्यतामिति-स्थिरजीव्ययं हन्यतामिति । येन-रक्ताक्षेण मन्त्रिणा । अत्र-शत्रुमन्त्रिषु ॥ २१० ॥ तस्य-रक्ताक्षस्य । एते-उलूका । अनर्थ -विपत्तिरूप । हितैषिण =अस्म- प्रियचिन्तकस्य ।' यथासमीहित- यथाभिलषितम् । मध्यस्थेन-उलूकदुर्गमध्य- स्थितेन । अभिप्रेतम् अभीष्टम् । अहित =शत्रुजातीय.। अनुरक्त =प्रिय । शुचि द्वेषशून्य , परीक्षितश्च । आवास निवास । अर्ह -योग्य । भवतो ये पादपद्म तयोर्यद्रज' रेणु , तेन पवित्रीकृतस्तनुर्देहो यस्यासौ तथाभूत । प्रतिपन्ने =स्वीकृते । उलूकपतिसेवका.-उलूकराजानुचरा । प्रकामं यथेच्छम् । प्रकृष्टं 7