पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२९९ । 'तदहमस्याह्वानं करोमि येन तदनुसारेण प्रविष्टोऽयं मे भो ज्यतां यास्यति ।' एवं सम्प्रधार्य सिहस्तस्याऽऽतानमकरोत् । अथ सिहशब्देन सा गुहा प्रतिरवसम्पूर्णाऽन्यानपि दूर- स्थानरण्यजीवांस्त्रासयामास । शृगालोऽपि पलायमान इमं श्लोकमपठत्- अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् । वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता'।।२१४|| तदेवं मत्वा,युष्माभिर्मया सह गन्तव्यम्'-इति । एवमभि- घाय आत्मानुयायिपरिवारानुगतो दूरदेशान्तरं रक्ताक्षोजगाम। lay अथ रक्ताक्षे गते स्थैिरजीव्यतिहृष्टमना व्यचिन्तयत्-'अहो! कल्याणमस्माकमुपस्थितं यद्रक्ताक्षो गतः, यतः स दीर्घदर्शी,- एते च मूढमनसः, ततो मम (पते ) सुखधात्याः सञ्जाताः । उक्तञ्च यतः- न दीर्घदर्शिनो यस्य मन्त्रिण स्युर्महीपते । क्रमायाता ध्रुवं तस्य न चिरात्स्यात्परिक्षयः ।। २१५ ।। अथवा साध्विमुच्यते- मन्त्रिरूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः । ये संन्तं नयमुत्सृज्य सेवन्ते प्रतिलोमत.' ॥२१६ ॥ पवं विचिन्त्य स्वकुलाये एकैकां वनकाष्ठिका गुहादीपनार्थ तदनुसारेण आह्वानानुसारेण । प्रतिरवसम्पूर्णा-प्रतिध्वनिपरिपूरिता । आत्मनो ये अनुयायिनस्तैस्तत्परिवारैश्च अनुगत =सहित । सुखघात्या =सुखेन वध्या। दीर्घदर्शिनः दूरदर्शिन । क्रमायाता वंशपरम्परागता । न चिरात् शीघ्रमेव । परिक्षय =नाश ॥ २१५॥ सन्त सरलं, प्रसिद्धञ्च । नयं-मन्त्र, नीतिञ्च । प्रतिलोमत =वैपरीत्येन ॥ २१६ ॥ स्वकुलाये स्वनीडे। वनकाष्टिका= १ 'सुमनत य. कुरुते स शोभते, न शोभते यो न करोति सङ्गत'मिति गौडा पठन्ति । ‘स शोच्यते' इति वा पठितु शक्यम् । २. चिरजीवीति पाठा.। ३ 'ये हित वाक्यमुत्सृज्य विपरीतोपसेविन.' इति, 'विपरीतोपदर्शिन' इति च पा० । 1