पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२

  • पञ्चतन्त्रम् *

[३ काको- शक्तेनापि सदा जनेन विदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वक्रवाक्यविपमे क्षुद्रेऽपि पापे जने । दीव्यग्रकरेण धूममलिनेनाऽऽयासयुक्तेन च भीमेनाऽतिबलेन मत्स्यभवने कि नोषितं सूदवत् ? ।।२२२॥ यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा कालापेक्षी पिहितनयनो बुद्धिमान्कर्म कुर्यात् । किं गाण्डीवस्फुरदुरुगुणास्फालकक्रूरपाणि- सील्लीलानटनविलसन्मेखली सव्यसाची ! ॥२२३।। सिद्धिं प्रार्थयता जनेन विदुपा तेजो निगृह्य स्वकं सत्त्वोत्साहवताऽपि दैवविधिषु स्थैर्य प्रकार्य क्रमात् । देवेन्द्रद्रविणेश्वराऽन्तकसमैरप्यन्वितो भ्रातृभिः किं क्लिष्टः सुचिरं त्रिदण्डमवहच्छीमान्न धर्मात्मजः १।२२४।। हस्तिशुण्डादण्डसदृशौ । ज्याघाताको-शिजिनीसमाघातकिणापितौ। महात्र- विशारदौ-दिव्यास्त्रनिपुणौ । किरीटिना अर्जुनेन ॥ २२१ ॥ शक्तेन-समर्थन । विदुषा पण्डितेन । 'नरेन्द्रविदुषेति पाठः क्वचित् । कालान्तरापेक्षिणा=समयमपेक्षमाणेन । वक्रवाक्यविषमे क्रूरवक्रवाक्यकठिने । लिखिते 'वाक्यवति पाठः क्वचित् । क्षुद्रे-नीचे। पापे-खले । दींव्यग्रकरण: खजाकालनहस्तेन । -( दर्वी 'करछुल' 'चमची')। आयासयुक्तेन परिश्रम खिन्नेन । मत्स्यभवने मत्स्यराजस्य विराटस्य भवने । सूदः पाचकः ॥२२२॥ यद्वा तद्वा यत्किञ्चिदपि। विषमपतित. विपत्तिमग्नः सन् । कालापेक्षी शुभसमयं प्रतीक्षमाणः । पिहितनयनः विचारं त्यक्त्वाऽक्षिणी निमीत्य । (ऑख बन्द करके किसी तरह से ) । 'हृदयनिहित'मिति मुद्रितः पाठः । गाण्डीवेति । गाण्डीवस्य यः स्फुरन् उरु =महान्, गुण. मौर्वी, तस्यास्फा- लनेन-आकर्षणेन घर्षणेन च क्रूर.-कठिनः, पाणिर्यस्यासौ तथाभूतः । लीलया यन्नटन-नृत्यं, तेन विलसन्ती मेखला काञ्ची यस्यासौ तथाभूतः । सव्यसाची= अर्जुनः। विराटनगरेऽर्जुनो बृहन्नटारूपेण नृत्यं चकारेति महाभारते ॥२२३॥ तेजः वीर्य । निगृह्य-पिधाय । सत्त्वं धैर्य । दैवविधिषु-दैवादापन्नेषु कर्मसु । ४ १ 'वाक्यवज्र' पा०।२. 'स्थेय समीक्ष्य क्रममिति पा०।