पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३०५ 1 मेघवर्ण आह-'कथमेतत् ? । स्थिरजीवी कथयति- १५. मण्डूकमन्दविषसर्पकथा अस्ति वरुणाद्रिसमीपे एकस्मिन्प्रदेशे परिणतवया मन्दविपो नाम कृष्णसर्पः। स एवं चित्ते सञ्चिन्तितवान्-'कथं नाम मया सुखोपायवृत्त्या वर्तितव्यम्' ? इति । ततो बहुमण्डूकं हृदमुप- गम्याऽधृतिपरीतमिवात्मान दर्शितवान् । अथ तथा स्थिते तस्मिन्नुदकप्रान्तगतेनैकेन मण्डूकेन पृष्टः-'माम ! किमद्य यथा पूर्वमाहारार्थ न विहरसि ? ।' सोऽब्रवीत्-'भद्र । कुतो मे मन्दभाग्यस्याहाराभिलाषः। यत्कारणम्-अद्य रात्रौ प्रदोप एव मयाहारार्थ विहरमाणेन दृष्ट एको मण्डूकः, तद्रहणार्थ मयो क्रमः सजितः । सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरपक्रान्तो न,विभावितो मया क्वापि गत.। तत्स- दृशमोहितचित्तेन मया कस्यचिद्वाह्मणस्य सूनोह्रदतटजलान्तः- स्थोऽङ्गुष्ठोदष्टः। ततोऽसौसपदि पञ्चत्वमुपागतः। अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा,-"दुरात्मन् । त्वया निरपराधोमत्सुतो दष्टः,-तदनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्प्र सादलब्धजीविकया च वर्तिष्यसे"-इति । ततोऽहं युष्माक वाहनार्थमागतोऽस्मि।' तेन च सर्वमण्डूकानामिदमावेदितम् , ततस्तै प्रहृष्टमनोभि' गच्छतापि॥२३३॥ वरुणाद्रिः-पर्वतविशेष । [चरणाद्रि-चुनार ] परिणतवया वृद्ध । सुखोपायवृत्त्या प्रयासरहितया जीविकया। अधृतिपरीतमिव-शोकाकुलित मिव । 'तिपरीत मिति तु मुद्रित पाठ । उदकप्रान्तगतेन-जलसमीपप्रदेशस्थेन । माम-भो-मातुल ! विहरसि उद्योग करोषि । मन्दभाग्यस्य-मन्दप्रारब्धस्य । आहाराभिलाष भोजनेच्छा । यत्कारणम् (इसमें यह कारण है कि-)। प्रदोष सायम् । क्रम प्रहरणकालिक आसनवन्ध । स =मण्डूक । स्वाध्यायप्रसक्ताना- वेदाध्ययनसन्ध्योपासनादितत्पराणाम् । अन्त =मध्ये। विभावित = विज्ञात । तत्सदृशमोहितचित्तेन-मण्डूकसादृश्यभ्रान्तचित्तेन । मूनो = पुत्रस्य । हृद = अगाधजलं सर. । असौ ब्राह्मणपुत्र । दुरात्मन् दुष्ट ! । तेषा-मण्डूकानाम् २०