पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

WAV मेघवर्ण आह-'नूनं सद्यः फलानि नीतिशास्त्राणि, यत्त्रया: ऽऽनुकूल्येनानुप्रविश्याऽरिमर्दनः सपरिजनो निःशेषितः । स्थिरजीव्याह- तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थस्तस्याप्यादौ संश्रय' साधु युक्तः । उत्तुङ्गाग्रः सारभूतो वनानां नाऽनभ्यर्च्य च्छिद्यते पादपेन्द्रः ।२४४।' अथवा स्वामिन् ! किं तेनाऽभिहितेन यत्-अनन्तरकाले क्रियारहितमसुखसाध्यं वा भवति ? । साधु चेदमुच्यते- अनिश्चितैरध्यवसायभीरुभिः पदे पदे दोषशतानुदर्शिभिः । फलैर्विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् २४५ न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः। यत्- शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्यमत्रादरःक इति कृत्यमुपेक्षमाणा । केचित्प्रमत्तमनस' परितापदुःखमापत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ।। श्री =सम्पत्ति । आज्ञा अनुशासनम् । 'ऊर्वी ति गोडा. पठन्ति । राज्य-विपु- लभूमिलाभ ॥ २४३ ॥ आनुकूल्येन-तत्पक्षप्रवेशेन । तीक्ष्णोपाय -वधताडन- दण्डादि ।अर्थ =प्रयोजनम्। तस्य तत्सिद्धये। आदौ-पूर्वम्। संश्रयः आश्रयणम् । सम्प्रयुक्त =शोभन । उत्तुङ्गाग्रः विशाल., प्रोन्नतशिखर.। वनस्य - सारभूत = श्रेष्ठतम । पादपेन्द्र =महावृक्षोऽपि । अनभ्यर्च्य=अपूजयित्वा। न च्छिद्यते-न खण्ड्यते । किन्तु पूजा कृत्वैव च्छिद्यते तक्षकादिभिरित्यर्थः ॥ २४४ ॥ अभि- हितेन उक्तन । अनन्तरकाले साधनावसरे । क्रियारहितं साधनरहितम् । असुखसाध्य दु खसाध्यम् । - अनिश्चितै. निश्चयरहितैः। अध्यवसायभीरुभि = उद्योगकातरै.। विसंवाद = विपरीतताम् । गिर =मन्त्रा , वाक्यानि वा । परिहास- वस्तुता-परिहास्यताम् । 'परिहास्ये' ति क्वचित्पाठ ॥ २४५ ॥ आपत्प्रसङ्गसुलभम् विपत्तिसमागमसुलभम् ॥ २४६ ॥ १. 'ऊलूकराजोऽपमर्द' इति पाठा० । २ चिरजीविति पाठा० । ३ 'सम्प्रयुक्त । उदीक्ष्याने लक्ष्यभूतो वनानां नानभ्यर्च्य च्छिद्यते' इति पाठो लिखिते पुस्तके।