पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

- अजागलस्तनस्येव तस्य राज्यं निरर्थकम् ।। २४९ ।। गुणेपु रागो व्यसनेष्वनादरो रति. सुभृत्येषु च यस्य भूपतेः । चिरंस भुङ्क्ते चलचामरांशुकां सितातपत्राभरणां नृपश्रियम्।।२५०।। न च त्वया 'प्राप्तराज्योऽह' मिति मत्वा श्रीमदेनाऽऽत्मा व्यंसयितव्यः । यत्कारणं-चला हि राज्ञो विभूतयः । वंशारोहण- चद्राज्यलक्ष्मीर्दुरारोहा, क्षणविनिपाता। पारदरसवत्-प्रयत्नशतै- रपि धार्यमाणा दुर्धरा । प्रशस्ताऽऽराधिताप्यन्ते विप्रलम्भिनी, चानरजातिरिव विद्रुतानेकचित्ता । पद्मपत्रोदकमिवाऽघटित- संश्लेषा । पवनगतिरिवाऽतिचपला। अनार्यसझतमिवाऽस्थिरा। आशीविष इव दुरुपचारा । सन्ध्याऽभ्रलेखेव मूहूर्तरागा । जल- वुद्रुदावलीव स्वभावभङ्गुरा । शरीरप्रकृतिरिव कृतघ्ना। स्वप्न- लब्धद्रव्यराशिरिच क्षणदृष्टनष्टा । अपिच- यदैव राज्ये क्रियतेऽभिषेकस्तदैव बुद्धिव्यसनेषु योज्या । घटा हि राज्ञामभिषेककाले सहाऽम्भसैवापदमुद्रिन्ति ।।२५१॥ छनमासनं श्रीश्च यस्यासौ तथाभूत । रजयेत् प्रसादयेत् । गुणे. स्वात्मस्थ- रक्षकत्वादिभिर्गुणे । अजागलस्तनस्येव-छागीगलस्थितस्तनाकारमासग्रन्थे- रिव ॥ २४९॥ चल चामरमेवाशुक-वसनं यस्या ताम् । सितमातपत्रमेवाभरणं यस्या सा ताम् । नृपश्रियं-राजलक्ष्मीम् ॥२५ ॥ श्रीमदेन-राज्यगर्वेण । व्यंसयितव्या वञ्चनीय । (धोखे में गिराना चाहिए)। विभूतय =सम्पद.। चंशस्याग्रभाग इव दु खेनारोढुं लब्धं च शक्यते, क्षणेन पातयति च । पारद- रस =पारदः । धार्यमाणा-स्थाप्यमाना । विप्रलम्भिनी वञ्चयित्वा गमनशीला । विद्रुतम् इतस्ततो भ्राम्यत् । अनेक नानाप्रकार चित्तं यस्या सा=अति- चञ्चला । अघटितसंश्लेषा सम्पर्कशून्या। दुरुपचारा अनाराध्या, दुश्चिकित्स्या • च । मुहूर्तरागा=क्षणमात्रविनाशिरागा। व्यसनेषु-विपत्प्रतीकारे । घटा.अभि. पेकजलपूर्णाः कलशा. । अम्भसा अभिषेकजलेन-सहैव । उद्गिरन्ति वर्षन्ति । राज्यारोहणसमयादेवापदागमो भवतीत्याशय ॥ २५१ ॥