पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३२३ > हृदयेन प्रयोजनं, तदागच्छ प्राधुणिकन्यायेनास्मद्गृहं, तव भ्रात- पत्नी सोत्कण्ठा वर्तते।' वानर आह-'भो दुष्ट ! गम्यताम् , अधुना नाहमागमिष्यामि । उक्तञ्च- बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे ! प्रियदर्शनस्य, 'न गङ्गदत्तः पुनरेति कूपम् ॥१६॥ मकर आह-'कथमेतत् । स आइ- १. गङ्गदत्तप्रियदर्शनसर्पकथा कस्मिश्चित्कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म । स कदाचिद्दायादैरुद्वेजितोऽरघट्टघटीमालामारुह्य निष्क्रान्तः। अथ तेन चिन्तितस्-'यत्कथं तेषां दायादानां मया प्रत्य- पकारः कर्तव्यः?। उक्तञ्च- आपदि येनाऽपकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयो. पुनरपि जातं नरं मन्ये ॥१७|| एवं चिन्तयन्विले प्रविशन्तं प्रियदर्शनाभिधं कृष्णसर्पम- पश्यत् । तं दृष्ट्वा भूयोऽप्यचिन्तयत्-'यदेनं तत्र कूपे नीत्वा सकलदायादानासुच्छेद करोमि। उक्तञ्च- शत्रुणा योजयेच्छg बलिना बलवत्तरम् । स्वकार्याय यतो न स्यात्काचित्पीडाऽत्र तत्क्षये ॥ १८॥ शत्रुमून्मुलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । परीक्षित , ( 'मन देखा था' )। प्राघुणिक =अतिथिः, ( 'पाहुना' ) । तस्य- न्यायेन भावेन, परिपाट्या वा। प्रियदर्शनस्य तन्नामकसर्पस्य । हे भद्रे शोभने ! आख्याहि गत्वा कथय । गङ्गदत्तः-मण्डूकराज ॥ १६ ॥ दायादैः- चन्धुभि । ('दयाद' 'पट्टीदार')। 'दायादौ सुतबान्धवी'-इत्यमरः । उद्वे- जित. पीडित । अरघट्ट =वहुघटयुत जलनिष्कासनयन्त्रभेद । तत्र वद्धा या १ 'अरहट'-कुएँ से पानी निकालने का यन्त्र जिसमें छोटी २ बाल्टी या घड़े बान्धे जाते हैं, और बैलों से चलाया जाता हैं तथाच- .