पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मी विराजितम् *

- . सर्प आह-'कथय कस्मात्ते परिभवः ? । स आह-'दाया- देभ्यः।' सोऽप्याह-व ते आश्रयो-वाप्यां, कृपे, तडागे, हृदे वा ?। तत्कथय स्वाश्रयम्।' तेनोक्तम्-'पाषाणचयनिबद्ध कूपे।' सर्प आह-'अहो ! अपदा वयं, तन्नास्ति तत्र मे प्रवेशः, प्रविष्टस्य च स्थानं नास्ति, यत्र स्थितस्तव दायादान्व्यापाद्यामि । तद्गम्यताम् । उक्तञ्च- यच्छक्यं ग्रसितुं पुंसा, अस्तं परिणमेच यत् । हितं च परिणामे यत्तदायं भूतिमिच्छता' ।। २३ ।। गङ्गादत्त आह-भोः! समागच्छ त्वम् , अहं सुखोपायेन तत्र तव प्रवेश कारयिष्यामि। तथा-तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति, तत्र स्थितस्त्वं लीलया दायादान्व्यापाद- यिष्यसि । तच्छ्रुत्वा सो व्यचिन्तयत्-'अहं तावत्परिणतवयाः कदाचित्कथञ्चिन्मूषकमेकं प्राप्नोमि, तत्सुखावहो जीवनोपायो- यमनेन कुलाङ्गारेण मे दर्शितः, तद्गत्वा तान्मण्डूकान्भक्षयामि'- इति । अथवा साध्विदमुच्यते- यो हि प्राणपरिक्षीणः सहायपरिवर्जित । स हि सर्वसुखोपायां बृत्तिमारचयेद्बुधः ॥ २४ ॥ एवं विचिन्त्य तमाह-'भो गङ्गादत्त ! यद्यवं तद्ने भव, येन . परेभ्यः= शत्रुभ्य । परिभव = तिरस्कार, तस्मात् । अतिशत्रु : -स्वभाववैरिणमपि ॥२२॥ आश्रय =निवास । पाषाणनिचयनिबद्धे प्रस्तरराशि- निबद्ध। अपदा =चरणरहिता । वयं-सर्पाः । ग्रस्त भुक्तं । परिणमेत पार्क प्राप्नुयात् ('पच सके') । परिणामे-परिपाकावस्थायाम् । आद्य-भक्षणीयम् ॥२३॥ जलोपान्ते जलसमीपे । कोटरं-निष्कुह । ('खोह खड्डा')। लीलया अनायासेन । परिणत वयो यस्यासौ-परिणतवया =वृद्ध । सुखावह =सुखप्रद । कुलेऽजार इव-कुलाझार =कुलनाशन । तेन-कुलकलकेन । प्राणपरिक्षीण. क्षीणवलः। सर्वसुखोपायाम् सुखकरोपायसाध्याम् । वृत्ति-जीविकाम् ॥ २४ ॥ १. 'तक्ष्यामिति पाठा० । २. 'वृत्तिमारभते बुधः'।