पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

ANA घिङ् मूर्ख ! यत्त्वया स्त्रियोऽर्थ एतत्कार्यमनुष्ठातुमारब्धम् । न हि स्त्रीणां कथञ्चिद्विश्वासमुपगच्छेत् । यदर्थे स्वकुलं त्यक्तं जीवितार्थ च हारितम् । सा मां त्यजति नि स्नेहा क. स्त्रीणां विश्वसेन्नरः ? ॥४५|| मकर आह-'कथमेतत् ?। वानर आह- ५. ब्राह्मणब्राह्मणोपमुकथा अस्ति कस्मिंश्चिदधिष्ठाने कोऽपि ब्राह्मणः। तस्य च भार्या प्राणेभ्योऽप्यतिप्रियाऽऽसीत् । सापि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः कलहमसह- मानो भावात्सल्यात्स्वकुटुम्बं परित्यज्य ब्राह्मण्या सह विप्र- कृष्ट देशान्तरं गतः। अथ महाटवीमध्ये ब्राह्मण्याऽऽभिहितः-'आर्यपुत्र । तृष्णा मां वाधते, तदुदकं क्वाप्यन्वेपय।' अथासौ तद्वचनानन्तरं यावदुदकं गृहीत्वा समागच्छति, तावत्तां मृतामपश्यत् । अतिसौहार्दैन अतिवल्लभतया विषाद कुर्वन्यावद्विलपति, ताव- दाकाशे वाचं शृणोति । तथा हि-'यदि ब्राह्मण ! त्वं स्वकीय- जीवितस्या ददासि ततस्ते जीवति ब्राह्मणी । तच्छुत्वा ब्राह्मणेन शुचीभूय तिसृभिर्वाचाभिः स्वजीवि तार्धं दत्तम् । वाक्सममेव च सा ब्राह्मणी जीविता। अथ तो जलं पीत्वा वनफलानि भक्षयित्वा गन्तुमारब्धौ। ततः क्रमेण 'कस्यचिन्नगरस्य प्रदेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्याम- भिहितवान्-भद्रे ! यावदहं भोजनं गृहीत्वा समागच्छामि तान- वानरो मकरमुपालभते-धिगिति । जोवितार्धम् आयुषोऽर्धम् । हारित- दत्तं नाशितम् ॥ ४५ ॥ विप्रकृष्टं दूरतरम् । आर्यपुत्र हे नाथ ! । अतिसौ- हार्देननेहातिरेकेण । अतिवल्लभतया अतिप्रियतया। शुचीभूय आचमनादिना पवित्रेण । तिसृभिर्वाचाभि त्रिवारमुच्चार्य । अवधारणाय दाढ्यार्थ च त्रिरुतिः । वाक्सम दानवाक्याभिधानान्तरम् । पुष्पवाटिकायाम्-उद्याने। ('फुलवाड़ी