पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. प्रणाशम् ] * अभिनवराजलक्ष्मीविराजितम् * ३४५ हितम्-'भो मकर ! त्वदीया भार्याऽनशनोपविष्टा-त्वयि चिर- यति प्रणयाऽभिभवाद्विपन्ना' । एवं तद्वज्रपातसहशवचनमा- काऽतीव व्याकुलितहृदयः प्रलपितमेवं चकार-'अहो! किमिदं सञ्जातं मे मन्दभाग्यस्य ? । उक्तञ्च- माता यस्य गृहे नास्ति, भार्या च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ।। ५०॥ तन्मित्र ! क्षम्यतां, यन्मया तेऽपराधः कृतः, सम्प्रत्यहं तु स्त्रीवियोगाद्वैश्वानरप्रवेशं करिष्यामि।' तच्छ्रुत्वा वानरः प्रहस- ग्रोवाच-भोः ! ज्ञातं मया प्रथममेव-यत्त्वं स्त्रीवश्यः, स्त्रीजित- श्च । साम्प्रतं च प्रत्ययः सातः। तन्मूढ ! आनन्देऽपि जाते त्वं विषादं गतः!। तादृग्भार्यायां मृतायामुत्सवः कर्तुं युज्यते। उक्तञ्च यतः- 'या भार्या दुष्टचारित्रा सततं कलहप्रिया। भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ।। ५१ ।। तस्मात्सर्वप्रयत्नेन नामाऽपि परिवर्जयेत् । स्त्रीणामिह हि सर्वासांय इच्छेत्सुखमात्मनः ।। ५२ ।। यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्वहिः । यद्वहिस्तन्न कुर्वन्ति,-विचित्रचरिताः स्त्रियः ! ।। ५३ ॥ के नाम न विनश्यन्ति ? मिथ्याज्ञानान्नितम्बिनीम् । रम्यां य उपसर्पन्ति दीपाभां शलभा यथा ।। ५४ ॥ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । गुञ्जाफलसमाकाराः स्वभावादेव योषितः ।। ५५ ।। ताडिता अपि दण्डेन शखैरपि विखण्डिताः । न वशं योषितो यान्ति न दानैर्न च संस्तवै. ॥५६॥ तेन वानरेण । चिरयति=विलम्ब कुर्वाणे । प्रणयाभिभवात-इच्छामानादि- विघातात् । वैश्वानरः वह्निः। प्रत्यय =विश्वास । दुष्टचारित्रा-दुष्टशीला । विदग्धैः पण्डितै ॥५१॥ यत्-अन्तः अन्त करणे । 'वर्तते' इति शेप. । 'प्रियेति मिथ्याज्ञानात् ये-रम्यां स्त्रियमुपसर्पन्ति-ते शलभा दीपप्रभामिव-तां प्राप्य नूनं नश्यन्तीति भाव ॥५४॥ सस्तवै स्तुतिभि,प्रशंसावाक्यैश्च ॥५६॥