पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् ।

ततस्तयाऽभिहितम्-'भोः सुभगः! यद्येवं तदस्ति मे पत्युः प्रभूतं धनं, स च वृद्धत्वात्प्रचलितुमप्यसमर्थः । ततस्तद्धनमादा- याऽहमागच्छामि, येन त्वया सहाऽन्यत्र गत्वा यथेच्छया रति- सुखमनुभविष्यामि ।' सोऽब्रवीत्-रोचते मह्यमप्येतत् , तत्प्र. त्यूषेऽत्र शीघ्रमेव समागन्तव्यं, येन शुभतरं किञ्चिन्नगरं गत्वा त्वया सह जीवलोकः सफलीक्रियते ।' सापि 'तथा'-इति प्रतिज्ञाय प्रहसितवदना स्वगृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्व वित्तमादाय प्रत्यूक्समये तत्कथित- स्थानमुपाऽद्रवत् । धूर्तोऽपि तामग्रेविधाय दक्षिणां दिशमाश्रित्य सत्वरगतिः प्रस्थितः। एव तयोर्बजतोर्योजनद्वयमात्रेणाऽग्रतः काचिन्नदी समुपस्थिता। तां दृष्ट्वा धूर्तश्चिन्तयामास-किमहमनया यौवनप्रान्ते वर्त- मानया करिष्यामि ?। किञ्च कदाप्यस्याः पृष्ठतः कोऽपि समे. ष्यति, तन्मे महाननर्थः स्यात् । तत्केवलमस्या वित्तमादाय गच्छामि।' इति निश्चित्य तामुवाच-'प्रिये ! सुदुस्तरेयं महा- नदी, तदहं द्रव्यमानं पारे धृत्वा समागच्छामि, ततस्त्वामेका- किनी स्वपृष्ठमारोप्य सुखेनोत्तारयिष्यामि ।' सा प्राह-'सुभग ! एवं क्रियताम् ।' इत्युक्त्वाऽशेषवित्तं तस्मै समर्पयामास । अथ तेनाऽभिहितम्-'भद्रे ! परिधानाच्छादनवस्त्रमपि समर्पय येन जलमध्ये निःशङ्का व्रजसि । तथाऽनुष्ठिते-धूर्ती वित्तं मृतभार्य =मृतजाय । रतिदक्षिणा-सुरतसौख्यम् । प्रभूत-बहुलम् । प्रत्यूषे = प्रभाते । ('तडकाऊ )। जीवलोक सफलीक्रियते मनुष्यजन्मफलं सुरतसुख- मनुभवामि । तत्कथित धूर्तनिर्दिष्टम् । उपाद्रवत् पलायाञ्चक्रे, जगाम । योजन द्वयमात्रेण क्रोशाष्टकानन्तरम् । यौवनप्रान्ते-यौवनसमाप्तौ। (ढलती उमर मे)। पृष्ठत =पश्चाद्धागतोऽन्वेषयन् । अनर्थ. = राजदण्डादि. । द्रव्यमानं धनं सक- लम् । परिधानाच्छादनवस्त्र धौतवनोत्तरीयवस्त्रयुगलमपि । तथानुष्ठिते-परि- १'द्रव्यमानां'।पा।