पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५०

  • पञ्चतन्त्रम् *

[४ लब्ध- स्म । स चातीव दारियोपहतश्चिन्तितवान्-'अहो! घिगियं दरिद्रताऽस्मदृहे । यतः सर्वोऽपि जनः स्वकर्मण्येव रतस्ति. ष्ठति । अस्मदीयः पुनर्व्यापारो नानाधिष्ठानेऽर्हति-यतः सर्व लोकानां चिरन्तनाश्चतुर्भूमिका गृहाः सन्ति, सम एकमपि तन्ना. स्ति । तर्तिक मदीयेन रथकारत्वेन प्रयोजनम् ।'-इति चिन्तयि. त्वा देशानिष्क्रान्तः। यावत्किञ्चिद्वनं गच्छति तावद्गह्वराकार. वनगहनमध्ये सूर्यास्तमनवेलायां स्वयूथाअष्टां प्रसववेदनया पीड्यमानामुष्ट्रीमपश्यत् । स च दासेरकयुक्तामुष्ट्रीं गृहीत्वा स्व. स्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां ववन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः कृते पल्लवानयनार्थ पर्वतैकदेशे गतः। तत्र च नूतनानि कोमलानि बहूनि पल्लवानि छित्त्वा शिरसि समारोप्य तस्या अग्रेनिचिक्षेप । तया च तानि शनैः शनैर्मक्षितानि। पश्चात्पल्लवभक्षणप्रभावादहर्निशं पीवरतनु- रुष्ट्री सञ्जाता। सोऽपि दासेरको सहानुनः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्वकुटुम्बं परिपालयति । अथ रथकारण वल्लभत्वाहासेरकग्रोवायां महती घण्टा प्रतिबद्धा । पश्चाद्रथकारो व्यचिन्तयत्-'अहो ! किमन्यैर्दुष्कृतकर्मभिः, यावन्समैतस्मादेवोष्ट्रीपरिपालनादस्य कुटुम्बस्य भव्यं सातम्, तत्किमन्येन व्यापारण ।' एवं विचिन्त्य गृहमागत्य प्रियामाह- 'खाती' )। रतः अनुरक्तः । अधिष्ठाने-नगरे। अर्हति वर्द्धते। 'भर्धती'ति केचित्पठन्ति । तत्र च-प्रवर्द्धते' प्रचलतीति वाऽर्थः । चतुर्भूमिका. चतुस्तलाः। ('चौमंजिली हवेली)। चिरन्तनाः प्राचीनाः। 'बहव' इति केचित्पठन्ति । गह्वराकारवनगहन- मध्ये पर्वतगुहाकारारण्यगहनप्रदेशे। दासेरक.--उष्ट्रबालकः । (उँटका वच्चा 'टोड- रिया')। परशु-परश्वधं । (फरसा)। 'अहर्निशं पल्लवभक्षणप्रभावात्पीवरतनुरिति सम्बन्धः । ततः उष्ट्रयाः सकाशात् । वल्लभत्वात-प्रियत्वात् । भव्यं कल्याणं । १. अत्र-'सा चाऽचिरादेक दासेरकं सुषुवे ।' इति पाठस्युटितो भाति ।