पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम्]

  • अभिनवराजलक्ष्मीविराजितम् *

कदाचिदरण्ये स्वयं मृतो गजः समासादितः। तस्य समन्तात्प. रिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्राऽवसरे इतश्चेतश्च विचरन्कश्चित्सिहस्तव प्रदेशे समाययौ। अथ सिंह समागत दृष्ट्वा स क्षितितलविन्यस्तमौलिमण्डलः संयोजितकर- युगलः सविनयमुवाच 'स्वामिन् !, त्वदीयोऽहं लागुडिकः स्थितस्त्वदर्थ गजमिमं रक्षामि, तदेन भक्षयतु स्वामी।' तं प्रणत दृष्ट्वा सिहः प्राह-'भोः! नाहमन्येन हतं सत्त्वं कदाचिदपि भक्षयामि । उक्तञ्च- वनेऽपि सिंहा मृगमांसभक्ष्या बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीतिमार्ग परिलङ्घयन्ति ।।७१॥ तत्तवैव गजोऽयं मया प्रसादीकृतः।' तच्छ्रुत्वा शृगालः • सानन्दमाह-'युक्तमिदं स्वामिनो निजभृत्येषु । उक्तञ्च यतः- अन्त्यावस्थोऽपि महान्स्वामिगुणानो जहाति शुद्धतया । न श्वेतभावमुज्झति शङ्ख शिखिभुक्तमुक्तोऽपि ॥७२।। अथ सिहे गते कश्चिद्व्याघ्रः समाययौ । तमपि दृष्ट्वाऽसौ व्यचिन्तयत्-'अहो ! एकस्तावदुरात्मा प्रणिपातेनाऽपवाहितः, तत्कथमिदानीभेनमपवाहयिष्यामि ? । नूनं शूरोऽयं, न खलु भेदं विना साध्यो भविष्यति । समन्तात्-चतसृषु दिक्षु । पर-परन्तु । क्षितितले निहितं-स्थापितं मौलिमण्डलं येनासौ तथा कृतप्रणाम. । संयोजितकरयुगलाम्बद्धाञ्जलि । लागुडिकः रक्षकपुरुषः । ('लठैत' 'जमादार') । मृगमांस भक्ष्यं येषान्ते-तथा- भूताः। चरन्ति भक्षयन्ति ॥ ७१ ॥ प्रसादीकृतः प्रसन्नेन प्रदत्तः । अन्त्यावस्था-कष्टां दशाम्प्राप्तः। स्वामि. गुणान् दयादाक्षिण्यादीन् । शुद्धतया स्वच्छतया, सत्कुलप्रसूततया च । शिखि- भुक्तमुक्तोपि वह्नौ प्रदग्धोऽपि । भस्मीभूतोपि । शङ्खवत् । शङ्खभस्मापि श्वेतमेव भवतीत्याशयः ॥ ७२ ॥ असौ जम्बुकः । एक =सिहः। अपवाहित =दूरीकृतः। २३