पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४

  • पञ्चतन्त्रम् *

[५ अपरीक्षित- - 'भो मूढ ! किमनेन क्रियते ? यत्प्रभूतमपि दारियन नाशयति, तदुत्तिष्ठ, अग्रतो गच्छामः ।' सोऽब्रवीत्-'यान्तु भवन्तः, नाह- मग्रे यास्यामि ।' एवमभिधाय तानं यथेच्छया गृहीत्वा प्रथमो निवृत्तः। ते त्रयोऽप्यने प्रस्थिताः। अथ किञ्चिन्मात्रं गतस्याग्रेसरस्य वर्तिनिपपात, सोऽपि यावत्खनितुमारब्धस्तावद्प्यमयी क्षितिः। ततः प्रहर्षितः प्राह-'यद्भो भोः, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम्' । तावूचतुः-'भोः पृष्टतस्तानमयी भूमिः, अग्रतो रूप्यमयी, तन्ननमने सुवर्णमयी भविष्यति । किञ्चानेन प्रभूतेनापि दारिद्य- नाशो न भवति । तदावामग्रे यास्यावः। एवमुक्त्वा द्वावस्यग्ने प्रस्थितौ । सोऽपि स्वशक्त्या रूप्यमादाय निवृत्त । अथ तयोरपि गच्छतोरेकस्याने वर्तिः पपात। सोऽपि प्रहृष्टो यावत्स्वनति, तावत्सुवर्णभूमिं दृष्ट्वा द्वितीयं प्राह-भोः, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णादन्यन्न किञ्चिदुत्तमं भविष्यति'। स प्राह-'मूढ' ! न किंचिद्वेत्सि, प्राक्ताम्रम् , ततो रूप्यम् ततः सुवर्णम् । तन्नूनमतःपरं रत्नानि भविष्यन्ति, येषामेकत- मेनापि दारिन्यनाशो भवति , तदुत्तिष्ठ, अग्रे गच्छावः । किम- नेन भारभूतेनापि प्रभूतेन ? ।' स आह-गच्छतु भवान् । अह- मत्र स्थितस्त्वां प्रतिपालयिष्यामि ।' तथाऽनुष्ठिते सोऽपि गच्छन्नेकाको ग्रीष्मार्कप्रतापसन्तप्त- तनुः पिपासाकुलितः सिद्धिमार्गच्युत इतश्चेतश्च वभ्राम । अथ भ्राम्यन् स्थलोपरि पुरुषमेकं रुधिरप्लावितगात्रं भ्रम- शेषः । अनेन ताम्रेण । प्रभूतं-बहुलम् । अग्रेसरस्य अग्रयायिनः। रूप्यमयी रजतमयी। क्षितिः भूमि । नूनम् अवश्यम् । अनेन रजतेन । एकतमेन= एकेनापि । तथाऽनुष्ठिते=एवं कृते सति । ग्रीष्मार्कस्य यः प्रतापः आतप, तेन सन्तप्ता तनुर्यस्यासौ तथा । प्रखरघर्माकुल इत्यर्थः । सिद्धिमार्गच्युतः-सुवर्ण-