पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पंञ्चतन्त्रम् * [५ अपरीक्षित-

विद्याया विफलतां करोमि।' ततस्तेनाभिहितम्-'तर्हि प्रती- क्षस्व क्षणं यावदहं वृक्षमारोहामि ।' तथानुष्ठिते यावत्सजीवः कृतस्तावत्ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः। स च पुनर्व क्षादवतीर्य गृहे गतः । अतोऽहं ब्रवीमि-वरं वुद्धिन सा विद्या' इति । अतः परमुक्तं च सुवर्णसिद्धिना- 'अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः । सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः' ।। ३९ ।। चक्रधर आह-कथमेतत् ? । सोऽब्रवीत्- ४ मूर्खपण्डितचतुष्टयकथा कस्मिश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमा. पन्नाः वसन्ति स्म । बालभावे तेषां मतिरजायत-भोः! देशा- न्तरं गत्वा विद्याया उपार्जनं क्रियते'-इति । अथाऽन्यस्मिन्दिवसे ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थ कान्यकुब्जे गताः। तत्र च विद्यामठे गत्वा पठन्ति । एवं द्वादशाब्दान याच देकचित्ततया पठित्वा विद्याकुशलास्ते सर्वे संजाता.। ततस्तै- श्चतुर्मिमिलित्वोक्तम्-'वयं सर्वविद्यापारङ्गताः, तदुपाध्यायमु. त्केलापयित्वा स्वदेशे गच्छामः।' एवं मन्त्रयित्वा (तथैवानु- ष्टीयतामित्युक्त्वा ) ब्राह्मणा उपाध्यायमुत्कलापयित्वा, अनुज्ञां लब्ध्वा, पुस्तकानि नीत्वा प्रचलिता यावकिश्चिन्मार्ग यान्ति व्यापादयिष्यति मारयिष्यति। सः तृतीयो विप्रपुत्रः। विफलतांइदानी स्मृताया विद्याया वृथा परावर्तनं । तेन-सुबुद्धिना। क्षण-क्षणमात्रम् । प्रती- क्षस्व परिपालय । (ठहर जाओ)। वरं श्रेष्ठा । लोकाचारविवर्जिता: व्यवहारवुद्धिशून्या. ॥ ३९ ॥ मित्रत्वमैत्रीम् । आपन्नाः प्राप्ताः । बाल्यभावे-बाल्यावस्थायामेव । कान्यकुब्जे देशभेदे । ( कन्नौज )। विद्यामठे-पाठशालायाम् । एकचित्ततया= तन्मयतया। उत्कलापयित्वा-पृष्ट्वा । धनादिदानेन सन्तोष्य वा। प्राकृत- । १ 'अनुशाप्प' इति सस्कृत. पाठः ।